________________
मूलाचारे
अथवा अभेदात्तल्लिगं ताच्छव्यं च पंचेंद्रियतिर्यङ्कराः समचतुरस्रन्यग्रोधस्वातिकुब्जवामनहुंडाश्च भवंति सामान्येन । देवा चउरसा - देवाश्चतुरस्राः, णारया - नारकाः, हुंडा - हुंडा: । देवाः समचतुरस्रसंस्थाना एव, नाकाश्च हुंडकसंस्थाना एव न तेषामन्यत्संस्थानान्तरं विद्यत इति ॥ ४९ ॥ जवणालिया मसूरी अतिमुत्तय चंदए खुरप्पे च । इंद्रियसंठाणा खलु फासस्त अणेयसंठाणं ॥ ५० ॥
२०८
www
यवनालिका मसूरिका अतिमुक्तकं चंद्रकं क्षुरप्रं च । इंद्रियसंस्थानानि खलु स्पर्शस्य अनेकसंस्थानं ॥ ५० ॥
टीका -- जवणालिया-यवस्य नालिका यवनालिका, मसूरी - मसूरिका वृन्ताकारा, अदिमुत्तयं-अतिमुक्तकं पुष्पविशेषः, चंदए - अर्द्धचन्द्रः, खुरप्पे य-क्षुरप्रंच, इंदिय-इंद्रियाणां इन्द्रियशब्देन श्रोत्रचक्षणजिह्वेन्द्रियाणां ग्रहणं स्पर्शनेन्द्रियस्य पृथग्ग्रहणात्, संठाणा - संस्थानानि आकारा यथासंख्येन संबंधः । श्रोत्रेन्द्रियं यवनालिकासंस्थानं चक्षुरिन्द्रियं मसूरिकासंस्थानं, घ्राणेन्द्रियमतिमुक्तकपुष्पसंस्थानं, जिह्वेन्द्रियमर्धचन्द्रसंस्थानं क्षुरप्रसंस्थानं च खलु स्फुटं । फासस्स - स्पर्शस्य स्पर्शनेन्द्रियस्य, अणेयसंठाणं-अनेकसंस्थानं अनेकप्रकार आकारः । स्पर्शनेन्द्रियस्यानेकं संस्थानं समचतुरस्रादिभेदेन व्यक्तं सर्वत्र क्षयोपशमभेदात् । अंगुला संख्यातभागप्रमितं भावेंद्रियं द्रव्येंद्रियं पुनरंगुलासंख्य । तभागप्रमितमपि भवति । इन्द्रियं द्विविधं द्रव्येन्द्रियं भावेंद्रियं च द्रव्येंद्रियं द्विविधं निर्वृत्युपकरणमेदेन, भावेन्द्रियमपि द्विविधं लब्ध्युपयोगभेदेन, तत्र द्रव्येंद्रियस्य निर्वृत्तेर्भावेन्द्रियस्य च लब्धेः संस्थानमेतत्, उपयोगो भावेन्द्रियं तस्याकारो विषयपरिच्छित्तिरेव ॥ ५० ॥
१ यवनालिका यवस्य नालं ख ग । २ क्षयोपशमप्रदेशा प्रेस - पुस्तके ३ श्रमिताः पुस्तके पाठः ।