SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पर्याप्तत्यधिकारः । संस्थानं पताकासंस्थानं । मसूरिकायाकार इव पृथिवीकायिकादयः । हरिदतसा - हरितत्रसाः प्रत्येकसाधारणबादरसूक्ष्मवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः, णेगसंठाणा - अनेकसंस्थाना नैकमनेकमनेकं संस्थानं येषां तेऽनेकसंस्थाना अनेक हुँडसंस्थानविकल्पा अनेकशरीराकाराः । त्रसशब्देन द्वीन्द्रियादिचतुरिंद्वियपर्यंता गृह्यंते पंचेंद्रियाणां संस्थानस्योत्तरत्र प्रतिपादनादिति ॥ ४८ ॥ पंचेन्द्रियसंस्थानप्रत्तिपादनार्थमाह; -- २०७ समचउरसणग्गोहासादियखुज्जायवामणाहुंडा । पंचेंद्रियतिरियणरा देवा चउरस्स णारया हुंडा ॥ ४९ ॥ समचतुरस्रन्यग्रोधस्वातिककुब्ज कवामनहुंडाः । पंचेंद्रियतिर्यग्नरा देवाश्चतुरस्रा नारका हुंडाः ॥ ४९ ॥ टीका - संस्थानमित्यनुवर्तते । समचउरस - समचतुरस्रं संस्थानं यथा प्रदेशावयवं परमाणूनामन्यूनाधिकता । गोह न्यग्रोध संस्थानं शरीरस्योर्ध्वभागेऽवयवपरमाणुत्रहुत्वं । * सादि - स्वातिसंस्थानं शरीरस्य नाभेरधः कटिजंघापादाद्यवयवपरमाणूनामधिकोपचयः । खुज्जा - - कुब्जसंस्थानं शरीरस्य पृष्ठावयवपरमाण्वधिकोपचयः । वामणा - वामनसंस्थानं शरीरमध्यावयवपरमाणुत्रहुत्वं हस्तपादानां च ह्रस्वत्वं । हुडा - * हुंडसंस्थानं सर्वशरीरावयवानां बीभत्सता परमाणूनां न्यूनाधिकता सर्वलक्षणासंपूर्णता च पंचेंद्रियतिरियणरा-पंचेन्द्रियतिर्यङ्कराणां समचतुरस्रन्यग्रोधस्वातिकुब्जवामनहुंड संस्थानानि षडपि पंचेन्द्रियाणां मनुष्याणां तिरश्चां च भवंति, १ अस्मादग्रे कायाः काया इत्यर्थः इत्यशुद्धपाठः ख-ग-पुस्तके किन्तु इत्यर्थ इत्यनेन केवलेन भाव्यं । पुष्पमध्यगतपाठस्थानेऽयं पाठः प्रेस - पुस्तके सादिस्वातिसंस्थानं वल्मीकतुल्या कारं 'शरीरमध्यावययवपरमाणुबहुलं कुब्जसंस्थानं हस्तपादानां च हस्त्रत्वं वामनसंस्थानं । *
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy