________________
२०६
मूलाचारे
जातमात्रस्य सर्वजघन्यशरीरोत्सेधः, जलचराणां चे पद्मानां सर्वोत्कृष्टः शरीरायाम इति । अत्रापि लोकस्य सप्तैकं पंचैकं रज्जुप्रमाणं द्रष्टव्यं तथा मेरुकुलपर्वतविजया ष्वाकारकांचनगिरिमनुष्योत्तरकुंडलवरांजनदधिमुखरतकरस्वयंभूनगवरेंद्रदंष्ट्रागिरिभवन विमानतोरणजिनगृहपृथिव्यष्टकेन्द्रकप्रकीर्णकश्रेणिबद्धनरकक्षेत्रवेदिकाजंबूशाल्मलीधातकीपुष्करचैत्यवृक्षकूटह्रदनदीकुंडायतनवापीसिंहासनादीनामुत्सेधायामप्रमाणं द्रष्टव्यं लोकनियोगत इति ॥ ४७ ॥
देहसूत्रं व्याख्याय संस्थानसूत्रं प्रपंचयन्नाह;मसुरिय कुसग्गविंदू सूइकलावा पडाय संठाणा । कायाणं संठाणं हरिदतसा णेगसंठाणा ॥४८॥
मसूरिका कुशाग्रविंदुः सूचीकलापः पताका संस्थानानि । ‘कायानां संस्थानानि हरितवसा अनेकसंस्थानाः ॥ ४८॥
टीका-मसुरिय-मसूरिका वृताकारा, कुसग्गविंदू-कुशस्याग्रं कुशाग्रं तस्मिन् विंदुरुदककणः कुशाग्रबिंदुर्वर्तुलाकारमुदकं, सूइकलावा-सूचीकलापः सूचीसमुदायः,पडाय-पताका,संठाणं-संस्थानान्याकाराः, कायाणं-कायानां पृथिवीकायिकादिवायुकायांतानां, संठाणं-संस्थानानि शरीराकाराः । मसूरिका इव संस्थानं यस्य तन्मसूरिकासंस्थानं, कुशाग्रबिंदुवि संस्थानं यस्य तत्कुशाग्रबिंदुसंस्थानं, सूचीकलाप इव संस्थानं यस्य तत्सूचीकलापसंस्थानं, पताका इव संस्थानं यस्य तत्पताकासंस्थानं यथासंख्येन संबंधः, पृथिवीकायस्य संस्थानं मसूरिकासंस्थानं, अप्कायस्य संस्थानं कुशाग्रबिंदुसंस्थानं, तेजःकायस्य संस्थानं सूचीकलापसंस्थानं, वायुकायस्य १ व पद्मानामिति पाठः ख-ग-पुस्तके नास्ति ।