________________
पर्याप्त्यधिकारः।
२०५
टीका-अंगुलं-द्रव्यांगुलमष्टयवनिष्पन्नांगुलेन येऽवष्टैब्धा नभःप्रदेशास्तेषां मध्येऽनेकस्याः प्रदेशपंक्तेविदायामस्तावन्मात्रं द्रव्यांगुलं तस्यांगुलस्य असंखभागं-असंख्यातभागः अंगुलमसंख्यातखंडं कृत्वा तत्रैकखंडमंगुलासंख्यातभागः, बादरसुहुमा य-बादरनामकर्मोदयाद्वादराः सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादराश्च सूक्ष्माश्च बादरसूक्ष्माः पृथिवीकायादयः, सेसया-शेषा उक्तानां परिशेषाः कायाः पृथिवीकायाप्कायतेजःकायवायुकायाः, उक्कस्सेण-उत्कृष्टेन सुष्टु महत्त्वेन, तुर्विशेषे; णियमा-नियमान्निश्चयात् , मणुया-मनुष्या भोगभूमिजाः, तिगाउ-त्रिगव्यूतानि, उन्विद्धा-उवृद्धाः परमोत्सेधाः । सर्वेऽपि बादरकायाः ( सूक्ष्माश्च ) पृथिवीकायिकादिवायुकायिकांता द्रव्यांगुलासंख्यभागशरीरोत्सेधा मनुष्याश्च पर्याप्तास्त्रिगव्यूतशरीरोत्सेधा । उत्कृष्टप्रमाणे न। नात्र पौनरुक्त्यं पर्याप्तिमनाश्रित्य सामान्येन कथनादिति ॥ ४६ ॥
पुनरपि सर्वजघन्यं सर्वोत्कृष्टं शरीरप्रमाणमाह;सुहुमणिगोदअपज्जत्तयस्स जादस्स तदियसमयसि। हवदि दु सवजहण्णं सव्वुक्कस्सं जलचराणं ॥ ४७ ॥
सूक्ष्मनिगोदापर्याप्तस्य जातस्य तृतीयसमये । भवति तु सर्वजवन्यं सर्वोत्कृष्टं जलचराणां ॥ ४७ ॥ टीका-सुहुमणिगोद-सूक्ष्मनिगोदस्य, अपज्जत्तयस्स-अपर्याप्तकस्य, जादस्स-जातस्योत्पन्नस्य, तदियसमयामि-तृतीयसमये प्रथमद्वितीयसमययोः प्रदेशविस्फूर्जनसद्भावात्पूर्वदेहसामीप्याद्वा महच्छरीरं भवति तृतीयसमये पुनः प्रदेशानां निचयानुसारेणावस्थानाच्च सर्वजघन्यं भवति शरीरं, हवदि दु-भवत्येव, सव्वजहण्णं-सर्वजघन्यं, सव्वुक्कस्सं-सर्वोत्कृष्टं, जलचराणां-मत्स्यानां पद्मानां वा । सूक्ष्मनिगोदस्यापर्याप्तस्य तृतीयसमये
१ये चाष्टधा प्रेस-पुस्तके ।