________________
२०४ wmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
मूलाचारे
पंचषट्सप्ताष्टधषि । जलचरस्थलचरा ये गर्भजा अपर्याप्ता खगस्थलचराश्च संमूर्छिमाः पर्याप्ता ये खगगर्भजाश्च ये पर्याप्तापर्याप्ताः सर्वे ते उत्कृष्टेन शरीरप्रमाणेन धनुःपृथक्त्वं भवंति । अथवा देहस्येत्यनुवर्त्तते तेनैतेषां देह उत्कर्षेण धनुःपृथक्त्वं भवतीति ॥ ४४ ॥
जलस्थलगर्भजपर्याप्तानामुत्कृष्टं देहप्रमाणमाह;जलगब्भजपज्जत्ता उकस्सं पंचजोयणसयाणि । थलगभजपज्जत्ता तिगाउदोकस्समायामो ॥ ४५ ॥
जलगर्भजपर्याप्ताः उत्कृष्टं पंच योजनशतानि । स्थलगर्भजपर्याप्तास्त्रिगव्यूतानि उत्कृष्टमायामः ॥ ४५ ॥ टीका-जलगभजपज्जत्ता-जलगर्भजपर्याप्ताः, उक्कस्सं-उत्कृष्टमुत्कपेण वा, पंचजोयणसयाणि-पंचयोजनशतानि देहप्रमाणेनेत्यर्थः, अथवा जलगर्भजपर्याप्तानामायामः पंचयोजनशतानि* उत्तरगाथार्धे आयामस्य ग्रहणं यतः । अथवा एतेषां देह उत्कृष्टः पंचयोजनशतानि* थलगब्भजपज्जता-स्थलगर्भजपर्याप्तानां, तिगाउद--त्रिगव्यूतानि षट्दंडसहस्राणि उक्कस्स-उत्कृष्टः, आयामो-आयामः शरीरप्रमाणं । स्थलगर्भजपर्याप्तानां भोगभूमितिरश्चां देहस्योत्कृष्ट आयामस्त्रीणि गव्यूतानि । अथवा स्थलगर्भजपर्याप्ता उत्कृष्टदेहस्यायामेन त्रिगव्यूतानि भवंतीति ॥ ४५ ॥
पृथिवीकायिकाप्कायिकतेजस्कायिकवायुकायिकानां मनुष्याणां चोत्कृष्टं देहप्रमाणं प्रतिपादयन्नाह;-- अंगुलअसंखभागं बादरमुहुमा य सेसया काया। उकस्सेण दुणियमा मणुगा य तिगाउ उविद्धा ॥४६॥
अंगुलासंख्यभागो बादरसूक्ष्माश्च शेषाः कायाः। उत्कृष्टेन तु नियमात् मनुष्याश्च त्रिगव्यूतानि उवृद्धाः ॥४६॥ • पुष्पमध्यगतः पाठः ख-ग-पुस्तकेऽधिकः ।