SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। २०३ छिमतिर्यगपर्याप्तानां देहप्रमाणं वितस्तिः । जलसम्मुर्छिमपज्जत्तयाणजलसम्मूर्छिमास्ते च ते पर्याप्तकाश्च जलसम्मूर्छिमपर्याप्तकास्तेषां जलसम्मूर्छिमपर्याप्तकानां च अथवा जलग्रहणेन जलचरा गृह्यते-प्रेस्तूयंते, प्रस्तुतत्वात्, जोयणसहस्सं--योजनानां सहस्रं, जलचरसंम्मूच्छिमपर्याप्तकानामुत्कृष्टं देहप्रमाणं योजनसहस्रमिति ॥ ४३॥ पुनरपि तदेवाश्रित्य गर्भजत्वं चाश्रित्योत्कृष्टदेहप्रमाणमाह;जलथलगब्भअपज्जत्त खगथलसंमुच्छिमा य पज्जत्ता । खगगब्भजा य उभये उक्कस्सेण धणुपुहत्तं ॥ ४४ ॥ जलस्थलग पर्याप्ताः खगस्थलसंमूर्छिमाश्च पर्याप्ताः। खगगर्भजाश्चोभये उत्कृष्टेन धनुःपृथक्त्वं ॥४४॥ टीका-जलथलगब्भअपज्जत्त-जलमुदकं, स्थलं ग्रामनगराटवीपर्वतादि, गर्भः स्त्रिया उदरे वस्तिपटलाच्छादितप्रदेशः, जलचरजीवा जलाः स्थलस्था जीवाः स्थला गर्भे जाता जीवा गर्भजा इत्युच्यते तात्स्थ्यात्साहचर्याद्वा यथा मंचाः क्रोशंतीति धनुर्धावतीति, न पर्याप्ता अपर्याप्ता अनिष्पन्नाहारादिषट्पर्याप्तयो जलाश्च स्थलाश्च ते गर्भाश्च जलस्थलगर्भास्ते च तेऽपर्याप्ताश्च जलस्थलग पर्याप्ता जलचराः स्थलचरा गर्भजाश्च येऽपर्याप्तास्त इत्यर्थः । खगथलसम्मुच्छिमा य-खे आकाशे गच्छंतीति खगाः स्थलस्थाः स्थलाः खगाश्च स्थलाश्च खगस्थलाः पक्षिमृगादयस्ते च ते सम्मूर्छिमाश्च खगस्थलसम्मूर्छिमाः, पज्जत्ता-पर्याप्ताः । खगगब्भजा य– खगे जाता खगजा गर्भे जाता गर्भजाः खगजाश्च ते गर्भजाश्च खगगर्भजाः, उभये-पर्याप्ता अपर्याप्ताश्च, उक्कस्सेण-उत्कर्षेण उत्कृष्टशरीरप्रमाणेन धणुपुहत्तं धनुःपृथक्त्वं “त्रयाणामुपरि नवानामधो या संख्या सा पृथक्त्वमित्युच्यते" धनुषां पृथक्त्वं धनुःपृथक्त्वं त्रयाणां धनुषामुपरि नवानामधश्चतुः १ क्रियापदमिदं ख-ग-पुस्तके नास्ति । नाप्यनेन भवितव्यं ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy