________________
२०२
मूलाचारे
wwwwwwwwwwwwwwwwwwmmmm.
साहनिकास्तु मत्स्याः स्वयंभूरमणे पंचशतिकास्तु । देहस्य सर्व-हस्वं कुंथुप्रमाणं जलचरेषु ॥ ४२ ॥ टीका--साहस्सिया दु--साहस्रिकास्तु सहस्रं योजनानां प्रमाणं येषां ते साहस्रिकाः, अत्रापि योजनशब्दो द्रष्टव्यः, मच्छा-मत्स्याः सयंभुरमणमि-स्वयंभूरमणसमुद्रे, पंचसदिया--पंचशतिकाः पंच शतानि प्रमाणं येषां योजनानां पंचशतिका नदीमुखेष्विति द्रष्टव्यमधिकारात् । उत्कृष्टेन स्वयंभूरमणसमुद्रे मत्स्याः सहस्रयोजनप्रमाणा नदीमुखेषु पंचशतयोजनप्रमाणाः । देहरस-देहस्य शरीरस्य, सव्वहस्सं--सर्वह्रस्वं सुष्ठ अल्पत्वं, कुंथुपमाणं--कुंथुप्रमाणं, जलचरेसु--जलचरेषु । सर्वजलचराणां मध्ये मत्स्यस्य देहप्रमाणं सर्वोत्कृष्टं योजनसहस्रं सर्वजघन्यश्च कुंथुप्रमाणः केषांचिज्जलचराणां देह इति ॥ ४२ ॥ - पर्याप्तापर्याप्तत्वमाश्रित्य जलचरस्थलचरखचराणां देहेप्रमाणमाह;जलथलखगसम्मुच्छिमतिरिय अपज्जत्तया विहत्थीदु । जलसम्मुच्छिमपज्जत्तयाण तह जोयणसहस्सं ॥ ४३ । जलस्थलखगसम्मूर्छिमतिर्यच अपर्याप्तका वितस्तिस्तु । जलसंमूर्छिमपर्याप्तकानां तथा योजनसहस्रं ॥ ४३ ॥ टीका--जलथलखग--जलं च स्थलं च खं च जलस्थलखानि तेषु गच्छंतीति जलस्थलखगा जलचरस्थलचरखचराः, सम्मुच्छिम--सम्मूछिमा गर्भोपपादजन्मनान्ययोन्युत्पन्नाः, तिरिय--तिर्यचो देवमनुष्यनारकाणामन्ये जीवाः, अपज्जत्तया--अपर्याप्तका असंपूर्णाश्चाषट्पर्याप्तयः, विहत्थी दु-वितस्तिका द्वादशांगुलप्रमाणाः, अथवा जलस्थलखगसम्मू
१ समुद्रे इति शब्दः ख-ग-पुस्तके नास्ति । २ देहप्रमाणायोत्तरसूत्रमाहख-ग.। ३ जन्मनोऽन्यथानुत्पन्ना ख-ग-पुस्तके पाठः ।