________________
पर्याप्त्यधिकारः।
२०१
दयः पंचेन्द्रियपर्यंता: संति, एतेभ्योऽन्येषु समुद्रषु मत्स्या मकरा अन्ये च दीन्द्रियादिपंचेन्द्रियपर्यंता जलचरा न संतीति ॥ ४० ॥
अथ किंप्रमाणा जलचरा एतोष्वित्याशंकायामाह;अट्ठारसजोयणिया लवणे णवजोयणा णदिमुहेसु । छत्तीसगा य कालोदहिम्मि अट्ठार णदिमुहेसु ॥४१॥
अष्टादशयोजना लवणे नवयोजना नदीमुखेषु । षत्रिंशत्काश्च कालोदधौ अष्टादश नदीमुखेषु ॥ ४१ ॥
का-अटारसजोयणिया-अष्टादशयोजनानि प्रमाणं येषां तेऽष्टादशयोजना:, लवणे-- लवणसमुद्रे, णवजोयणा-नवयोजनानि प्रमाणं येषां ते नवयोजनाः, णदिमुहेसु-नदीनां मुखानि नदीमुखानि तेषु नदीमुखेषु प्रदेशेषु गंगासिंध्वादीनां समुद्रेषु प्रवेशो नदीमुखं । छत्तीसगा य—षड्भिरधिकानि त्रिंशत् प्रमाणं येषां ते षट्त्रिंशत्काः षट्त्रिंशयोजनप्रमाणाः, कालोदहिम्मि--कालोदधौ, अटारस-अष्टादशयोजनप्रमाणा यद्यप्यत्र योजनशब्दो न श्रूयते पूर्वोक्तसमासांतर्भूतस्तथापि द्रष्टव्योऽन्यस्याश्रुतत्वात् लुप्तनिर्दिष्टो वा, णदिमुहेसु-नदीमुखेषु । लवणसमुद्रेऽष्टादशयोजनप्रमाणा मत्स्यास्तत्र च नदीमुखेषु च नवयोजनप्रमाणा मत्स्याः कालोदधौ पुनर्मत्स्याः घटाशयोजनप्रमाणास्तत्र च नदीमुखेषु अष्टादशयोजनप्रमाणाः। मत्स्यानामुपलक्षणमेतत् अन्येषामपि प्रमाणं द्रष्टव्यमिति॥४१
स्वयंभूरमणे मत्स्यानामुत्कृष्टदेहप्रमाणं जघन्यदेहप्रमाणं च प्रतिपादयनुत्तरसूत्रमाह;साहस्सिया दु मच्छा सयंभुरमणसि पंचसदिया दु । देहस्स सव्वहस्सं कुंथुपमाणं जलचरेसु ॥ ४२ ॥ १ नदीमुखमिति पाठः ख-ग-पुस्तके नास्ति ।