SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०० मूलाचारे वारुणीवरः क्षीरवरः प्रतवरो लवणश्च भवंति प्रत्येकाः । कालः पुष्कर उदधिः स्वयंभूरमणश्चोदकरसाः ॥ ३९ ॥ टीका-वारुणिवर-वारुणीवरः समुद्रो वारुणी मद्यविशेषस्तस्या रस इव रसो यस्य स वारुणीरसो वारुणीवरः, खीरवरो-क्षीरवरः क्षीरस्य रस इव रसो यस्य स क्षीररसः क्षीरवरः, घदवर-घृतवरः घृतस्य रस इव रसो यस्य स घृतरसः, लवणो य-लवणश्च लवणस्य रस इव रसो यस्य स लवणरसः लवणसमुद्रः, होति-भवंति, पत्तेया- प्रत्येकरसाः, एते चत्वारो वारुणीवरादयः समुद्रा भिन्नरसा भवंतीति । कालो-कालः, पुक्खर--पुष्करवरः, उदधी-समुद्रौ, सयंभुरमणो य–स्वयंभूरमणश्च, उदयरसा-उदकरसा उदकं रसो येषां त उदकरसाः, कालोदधिपुष्करोदधी समुद्रौ स्वयंभूरमणश्चैते उदकरसाः । एतेभ्यः पुनरन्ये क्षौद्ररसाः समुद्रा इति ॥ ३९॥ __ अथ केषु समुद्रेषु जलचराः संति केषु च न संतीत्याशंकायामाह;लवणे कालसमुद्दे सयंभुरमणे य होंति मच्छा दु। अवसेसेसु समुद्देसु णत्थि मच्छा य मयरा वा ॥४०॥ लवणे कालसमुद्रे स्वयंभूरमणे च भवंति मत्स्यास्तु । अवशेषेषु समुद्रेषु न संति मत्स्याश्च मकरा वा ॥ ४० ॥ टीका-लवणे-लवणसमुद्रे, कालसमुद्दे-कालसमुद्रे, सयंभुरमणे य-स्वयंभूरमणसमुद्रे च, होति मच्छा-भवंति मत्स्या:, तुशब्दादन्ये जलचरा मत्स्यशब्दस्य चोपलक्षणत्वात् उत्तरत्र मकरप्रतिषेधाच्च । अवसेसेषु--अवशेषेषु एतेभ्योऽन्येषु, समुद्देसु-समुद्रेषु, णत्थि--न संति न विद्यते, मच्छा य--मत्स्याश्च, मयरा वा--मकरा वा चशब्दादन्येऽपि जलचरा न संत्युपलक्षणमात्रत्वाद्दा प्रतिषेघस्य । लवणसमुद्रे कालोदधौ स्वयंभूरमणसमुद्रे च मत्स्या मकरा अन्ये च जलचरा द्वीन्द्रिया
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy