________________
पर्याप्स्यधिकारः।
१९९
टीका-जंबूदीवे-जंबूद्वीपे, लवणो-लवणसमुद्रः, धादइर्सडे य-धातकीखंडे च, कालउदधी य–कालोदधिसमुद्रः, सेसाणं- शेषेषु जंबूद्वीपधातकीखंडवर्जितेषु, दीवाणं--दीपेषु द्विर्गता आपो येषां ते द्वीपा जलरहितमध्यप्रदेशास्तेषु द्वीपेषु, दीवसरिसणामया--द्वीपैः सदृशानि समानानि नामानि येषां ते द्वीपसदृशनामानः, उदधी--उदकानि धीयते येषु त उदधयः समुद्राः । जंबूद्वीपे लवणसमुद्रः, धातकीखंडे च कालोदधिसमुद्रः, शेषेषु पुनःपेषु ये समुद्रास्ते स्वकीयस्वकीयद्वीपनामसंज्ञका भवंतीति ॥ ३७॥ ___ एते समुद्रा लवणोदादयः किं समानरसा इत्याशंकायामाह;पत्तेयरसा चत्तारि सायरा तिण्णि होंति उदयरसा। अवसेसा य समुद्दा खोदरसा होति णायव्वा ॥३८ । प्रत्यकरसाश्चत्वारः सागरास्त्रयो भवंत्युदकरसाः। अवशेषाश्च समुद्राः क्षौद्ररसा भवंति ज्ञातव्याः ॥ ३८॥ टीका-पत्तेयरसा-प्रत्येकः पृथक् पृथक् रसः स्वादो येषां ते प्रत्येकरसा भिन्नस्वादाः, चत्तारि-चत्वारः, सायरा--सागराः समुद्राः, तिण्णि-त्रयः, होति-भवंति, उदयरसा-उदकरसा उदकं रसो येषां ते उदकरसाः पानीयरसपूर्णाः । अवसेसा य-अवशेषाश्चैतेभ्यो येऽन्ये, समुद्दा-समुद्राः, खोदरसा क्षौद्ररसाः इक्षो रस इव रसो येषां त इक्षुरसा मधुररसस्वादुपानीयाः, होति-भवंति, णायव्वा-ज्ञातव्याः । * चत्वारः समुद्राः प्रत्येकरसाः, त्रय उदकरसाः समुद्राः, शेषाः पुनः क्षौद्ररसा ज्ञातव्या भवन्तीति* ॥ ३८॥
के प्रत्येकरसाः के चोदकरसा इत्याशंकायामाह;बारुणिवर खीरवरो घदवर लवणो य होंति पत्तेया। कालो पुक्खर उदधी सयंभुरमणो य उदयरसा ॥३९॥
१ किं समानरसा नेत्याह ख. ग। *पुष्प मध्यगतः पाठः ख-ग-पुस्तकेऽधिकः ।