SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ मूलाचारे असंख्याता इति तु न ज्ञायते, कियंत इत्यतस्तन्निर्णयमाह;-- जावदिया उद्धारा अड्डाइजाण सागरुवमाणं। तावदिया खलु रोमा हवंति दीवा समुद्दा य ॥ ३६ ॥ यावंत्युद्धाराणि अर्धतृतीययोः सागरोपमयोः । तावंति खलु रोमाणि भवंति द्वीपाः समुद्राश्च ॥ ३६ ॥ टीका-जावदिया-यावंति यन्मात्राणि, उद्धारा-उद्धाराणि उद्धारपल्योपमानि तेषु यावंति रोमाणि, अड्डाइज्जाण-अर्द्धतृतीययोर्द्वयोरर्धाधिकयोः, सागरुवमाण-सागरोपमयोः, तावदिया-तावंतस्तन्मात्राः, खलुस्फुटं, रोमा-उद्धारेषु रोमाणि सुकुमारोरणरोमाग्राणि, हवंति-भवंति, दीवा-दीपाः, समुद्दा य—समुद्राश्च । प्रमाणयोजनावगाहविष्कंभायाम कूपं कृत्वा सप्तरात्रजातमात्रोरणरोमाग्रभागैः पूर्ण च कृत्वा तत्र यावन्मात्राणि रोमाग्राणि तावन्मात्राणि वर्षशतानि गृहीत्वा तत्र यावन्मात्राः समया व्यवहारपल्योपमं नाम । व्यवहारपल्योपमे चैकैकं रोम असंख्यातवर्षकोटीसमयमात्रान् भागान् कृत्वा वर्षशतसमयैश्चैकैकं खंडं प्रगुण्य तत्र यावन्मात्राः समयाः तावन्मात्रमुद्धारपल्योपमं भवति । उद्धारपल्योपमानि च दशकोटीकोटीमात्राणि गृहीत्वैकं उद्धारसागरोपमं भवति । तावन्मात्रयोर्द्वयोः सार्द्धयोः सागरोपमयोर्यावन्मात्राण्युद्धारपल्योपमानि तत्र च यावन्मात्राणि रोमाणि तावन्मात्राः स्फुटं द्वीपसमुद्रा भवंतीति ॥ ३६ ॥ ननु द्वीपग्रहणेन च समुद्राणां ग्रहणं संजातं तत्र न ज्ञायते किमभिधानास्त इत्याशंकायामाह;जंबूदीवे लवणो धादइसंडे य कालउदधी य । सेसाणं दीदाणं दीवसरिसणामया उदधी ॥ ३७॥ जंबूद्वीपे लवणः धातकीखंडे च कालोदधिश्च । शेषाणां द्वीपानां द्वीपसदृशनामान उधयः ॥ ३७॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy