________________
१९७
पर्याप्स्यधिकारः । ~~~~~~~~~~~~~~~~~mmmmmmmmmmmwwwwwwwwwwwwwwwmmmmmm द्वीपः, घिदवरो-घृतवरः षष्ठो द्वीपः, खोदवरो–क्षौद्रवरः सप्तमो दीपः, नंदीसरो य-नंदीश्वरश्चाष्टमो द्वीपः, अरुणो-अरुणाख्यो नवमो द्वीपः, अरुणभासो य-अरुणभासश्च दशमो द्वीपः, कुंडलवरो य-कुंडलवरश्चैकादशो द्वीपः, संखवर- शंखवरो द्वादशो द्वीपः, रुजग--रुचकत्रयोदशो द्वीपः, भुजगवरो-भुजगवरश्चतुर्दशो द्वीपः, कुसवरो-कुशवरः पंचदशो द्वीपः, कुंचवरदीवो--क्रौंचवरद्दीपश्च षोडश इति ॥ ३३॥३४॥ __एवं नामानि गृहीत्वा विष्कंभप्रमाणमाह;एवं दीवसमुद्दा दुगुणदुगुणवित्थडा असंखेज्जा। एदे दु तिरियलोए सयंभुरमणोदहिं जाव ॥ ३५॥
एवं द्वीपसमुद्रा द्विगुणद्विगुणविस्तारा असंख्याताः। एते तु तिर्यग्लोके स्वयंभूरमणोदधिर्यावत् ॥ ३५ ॥
टीका-एवं अनेन प्रकारेण, दीवसमुद्दा-द्वीपसमुद्राः, दुगुणदुगुणवित्थडा--द्विगुणो द्विगुणो विस्तारो येषां ते द्विगुणद्विगुणविस्ताराः, कियंताः? असंखेज्जा-असंख्याताः संख्याप्रमितिक्रांताः । जंबूद्वीपविष्कंभाल्लवणसमुद्रो द्विगुणविष्कंभो लवणसमुद्राच्च धातकीखंडद्वीपो द्विगुणविष्कंभः । अनेन प्रकारेण द्वीपात्समुद्रो द्विगुणविस्तारः समुद्राच्च द्वीपः । अतः सर्वे द्वीपसमुद्रा द्विगुणद्विगुणविस्तारा असंख्याता भवंति । ननु समुद्रग्रहणं कुतो लब्धं ? द्वीपग्रहणात्, तदपि कुतः ? साहचर्यात्पर्वतनारदवत् । क व्यस्थिता इत्याशंकायामाह;-एते दु तिरियलोए-एते तु द्वीपसमुद्रास्तिर्यग्लोके रज्जुमात्रायामे, कियड्रं? सयंभुरमणोदहिं जाव-यावत्स्वयंभूरमणोदधिः । स्वयंभूरमणसमुद्रपर्यंता असंख्याता द्वीपसमुद्रा द्विगुणद्विगुणविस्तारा द्रष्टव्या इति ॥ ३५॥
१ संख्यातप्रमाणमतिक्रान्ताः ग ।