________________
पर्याप्यधिकारः ।
२७३
टीका - ते पुनरेकेंद्रिया बादर सूक्ष्मपर्याप्तभेदेन जिनैश्चतुर्विकल्पाः कथिता इति कृत्वा चत्वारो जीवसमासा भवतीति ॥ १५२ ॥
शेषजीवसमासान् प्रतिपादयन्नाह;--
पज्जत्तापज्जत्तां वि होंति बिगलिंदिया दु छठभेया । पज्जत्तापज्जत्ता सण्णि असण्णीय सेसा दु ॥ १५३ ॥ पर्याप्ता अपर्याप्ता अपि भवंति विकलेंद्रियास्तु षड्भेदाः । पर्याप्ता अपर्याप्ताः संज्ञिनः असंज्ञिनः शेषास्तु ॥ १५३ ॥ टीका — विकलेंद्रिया द्वीन्द्रियत्रींद्रियचतुरिंद्रियाः पर्याप्तापर्याप्तभेदेन षड्भेदा भवंति तथा पंचेंद्रियाः संज्ञिनोऽसंज्ञिनः पर्याप्तापर्याप्तभेदेन चतुविकल्पा भवति । एवमेते दश जीवसमासाः पूर्वोक्ताश्चत्वारः सर्व एते चतुदेश जीवसमासा भवतीति ॥ १५३ ॥
गुणस्थानानि प्रतिपादयन्ननंतरं सूत्रद्वयमाह; - मिच्छादिट्ठी सासादणी य मिस्सो असंजदो चेव । देसविरदो पमत्तो अपमत्तो तह य णायव्वो ॥ १५४ ॥ एत्तो अव्वकरणो अणियट्टी सुहुमसंपराओ य । उवसंतखीणमोहो सजोगिकेवलिजिणो अजोगी य १५५ मिथ्यादृष्टिः सासादनश्च मिश्रः असंयतश्चैव ।
देशविरतः प्रमत्तः अप्रमत्तः तथा च ज्ञातव्यः ॥ १५४ ॥ इतः अपूर्वकरणः अनिवृत्तिः सूक्ष्मसांपरायश्च । उपशांतक्षीणमोहौ सयोगिकेवलिजिनः अयोगी च ॥ १५५ ॥ टीका - मिथ्या वितथाऽसत्या दृष्टिर्दर्शनं विपरीतकांत विनयसंशयाज्ञानरूपमिथ्यात्वकर्मोदयजनिता येषां ते मिथ्यादृष्टयोऽथवा मिथ्या वितथं तत्र दृष्टी रुचिः श्रद्धा प्रत्ययो येषां ते मिथ्यादृष्टयोऽनेकांत तत्वपराङ्मुखा: । आसादनं सम्यक्त्वविराधनं सहासादनेन वर्त्तत इति सासादनो विनाशित
१८