________________
२७५
मलाचारे
सम्यद्गदर्शनः । अप्राप्तमिथ्यात्वकर्मोदयजनितपरिणामः मिथ्यात्वाभिमुखः । दृष्टिः श्रद्धा रुचिः एकार्थः समीचीना च मिथ्या च दृष्टिर्यस्यासौ सम्यमिथ्यादृष्टिः सम्यमिथ्यात्वोइयजनितपरिणामः सम्यक्त्वमिथ्यात्वयोरुदयप्राप्तस्पर्द्धकानां क्षयात् सतामुदयाभावलक्षणोपशमाञ्च सम्यमिथ्यादृष्टिः समीचीना दृष्टिः श्रद्धा यस्यासौ सम्यग्दृष्टिः असंयतश्चासौ सम्यग्दृष्टिश्चासंयतसम्यग्दृष्टिः क्षायिकक्षायोपशमिकौपशमिकदृष्टिभेदेन त्रिविधः सप्तप्रकृतीनां क्षयः क्षयोपशमेनोपशमेन च स्यात् । संयतश्च संयतासंयतः न चात्रविरोधः संयमासंयमयोरेकद्रव्यवर्तिनोः सस्थावरनिवंधनखात् अप्रत्याख्यानवरणस्य सर्वघातिस्पर्द्धकानामुदयक्षयात्सतां चोपशमात्प्रत्याख्यानवरणीयोदयाच्च संयमासंयमो गुणः । प्रकर्षेण प्रमादवंतः प्रमत्ताः सम्यक्यताः संयताः प्रमत्ताश्च ते संयताश्च प्रमत्तसंयताः नात्र विरोधो यतः संयमो नाम हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्नुप्तिसमित्यनुरक्षि तोऽसौ प्रमादेन (न) विनाश्यत इति,प्रमत्तवचनं अंतदीपकत्वात् शेषातीतसर्वगुणेषु प्रमत्ताश्रितत्वं सूचयति, प्रमत्तसंयतः संयमे(मो)ऽपि क्षायोपशमिकः संयमनिबंधनःसम्यक्त्वापेक्षया क्षायोपशमिकगुणनिबंधनः प्रमत्तसंयताः पूर्वोक्तलक्षणोनप्रमत्तसंयता अप्रमत्तसंयताः पंचदशप्रमादरहिताः एषोऽपि क्षायोपशमिकगुणः प्रत्याख्यानावरणस्य कर्मणः सर्वघातिस्पर्द्धकानां उदयक्षयात् तेषामेव सतां पूर्ववदुपशमात्संज्वलनोदयाच्च । प्रत्याख्यानात्पत्तेः आदिदीपकत्वाच्छेषाणां सर्वेषामप्रमत्तत्वं । करणाः परिणामा न पूर्वा अपूर्वा अपूर्वाः करणा यस्यासौ अपूर्वकरणः स विविधः उपशमः, क्षपककः, कर्मणामुपशमनक्षपणनिबंधनत्वात् । क्षपकस्य क्षीयिको गुणः, उपशमकस्य क्षायिक औपशमिकश्च दर्शनमोहनीयक्षयम
'क्षायिकौपशमिको गुणः' इति प्रेस-ख-1-पुस्तके पाठः। स च सिद्धान्तविरुद्धो दर्शनमोहनीयक्षयमविधाय इति हेतुविरुद्धश्चातो निःसार्य 'क्षायिको गुणः' इत्येव पाठो मुद्रितः।