SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २७२ मूलाचारे एकेंद्रियादीनां प्राणानां च स्वस्वामिसंबंध प्रतिपादयन्नाह;-- इंदिय बल उस्सासा आऊ चदु छक्क सत्त अद्वैव । एगिदिय विगलिंदिय असण्णि सण्णीण णव दस पाणा ॥ १५१ ॥ इंद्रियं बलं उच्छ्रास आयुः चत्वारः षट् सप्त अष्ट्रैव। एकेंद्रियस्य विकलेंद्रियस्य असंज्ञिनः संज्ञिनो नव दश प्राणाः॥ टीका-इंद्रियं स्पर्शनेंद्रियमेकः प्राणः, बलं कायबलं द्वितीयः प्राणः, उच्छासस्तृतीयः प्राणः, आयुश्चतुर्थः प्राणः, एते चत्वारः प्राणा एकेंद्रियस्य पर्याप्तस्य भवंति पर्याप्तिरहितस्य पुनरुच्छ्वासरहिता भवंति । द्वीन्द्रियस्य पर्याप्तस्य स्पर्शनरसनकायबलवाग्बालोच्छासायूंषि षट् प्राणा भवंति, अपर्याप्तस्य त एव वागुच्छ्वासरहिताश्चत्वारः । त्रीन्द्रियस्य पर्याप्तस्य स्पर्शनरसनघाणकायबलवाग्बलोच्छ्वासायूंषि षट् प्राणा भवंति, त एव वागुच्छ्वासरहिताः पंचापर्याप्तस्य । स्पर्शनरसनघ्नाणचक्षुः कायबलवाग्वलोच्छ्रासायूंष्यष्टौ प्राणाश्चतुरिंद्रियस्य पर्याप्तस्य भवंति वागुच्छासरहिंतास्त एव षडपर्याप्तस्य भवंति । पंचेंद्रियस्य कायबलवाग्बलोच्छ्वासायूंषि चासंज्ञिनः पर्याप्तस्य नव प्राणा भवंति त एव वागुच्छ्वासरहिताः सप्त भवंत्यपर्याप्तस्य । संज्ञिनः पर्याप्तस्य पुनः सर्वेऽपि दश प्राणा भवंति, अपर्याप्तस्य मनोवागुच्छासरहितास्त एव सप्त भवंति ॥ १५१ ॥ जीवसमासान्निरूपयन्नाह;मुहमा वादरकाया ते खलु पज्जत्तया अपज्जत्ता । एइंदिया दु जीवा जिणंहिं कहिया चदुवियप्पा ॥ १५२ सूक्ष्मा बादरकायास्ते खलु पर्याप्तका अपर्याप्तकाः। .. एकेंद्रियास्तु जीवा जिनैः कथिताः चतुर्विकल्पाः ॥ १५२ ॥ :
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy