________________
minnnnnnnnnnnarrammarrrrrrrrrrrrrrrrrrrry
पर्याप्त्यधिकारः।
२७१
mammmmmmmmm पृथिवीकायिकादय एकः प्रकारः, विकलेंद्रिया द्वितीयः प्रकारः, त्रींद्रिया: स्तृतीयः प्रकारः, चतुरिंद्रियाः चतुर्थः प्रकारः, तथा पंचेंद्रियाः पंचमः प्रकारः । पंचप्रकारा एव न षट्प्रकार नापि चत्वार इति ॥ १४८॥
पृथिवीकायादिभेदा उत्तरत्र प्रबंधेन प्रतिपाद्यंत इति कृत्वा द्वीन्द्रियादीन प्रतिपादयन्नाह;संखो गोभी भमरादिया दु विगलिंदिया मुणेदव्वा । पंचेंदिया दु जलथलखचरा सुरणारयणरा य ॥१४९ ॥
शंखो गोभी भ्रमरादयस्तु विकलेंद्रिया ज्ञातव्याः । पंचेंद्रियास्तु जलस्थलखचराः सुरनारकनराश्च ॥ १४९ ।। टीका--आदिशब्दः प्रत्येकमभिसंबध्यते; शंखादयःभ्रमरादयः,गोभ्यादयः विकलेंद्रिया द्वीन्द्रियाःत्रीन्द्रियाश्चतुरिंद्रिया यथासंख्येनाभिसंबध्यते। एते शंखकृम्यक्षवराटकक्षुल्लगंडूपदादयः द्वीन्द्रिया ज्ञातव्याः, गोभीकुंथुपिपीलिकामत्कुणवृश्चिकयूकेंद्रगोपादयस्त्रीन्द्रिया ज्ञातव्याः, भ्रमरमधुकरीदंशकपतंगमक्षिकादयश्चतुरिंद्रिया ज्ञातव्याः, पंचेंद्रियास्तु जलचराः स्थलचराः खचराः सुरा नारका नराश्च ज्ञातव्या इति ॥ १४९ ॥
प्राणान् प्रतिपादयन्नाह;पंचय इंदियपाणा मणवचकाया दु तिण्णि बलपाणा। आणप्पाणप्पाणा आउगपाणेण होते दस पाणा १५० . पंचैव इंद्रियाणि प्राणा मनोवचनकायास्तु त्रयो बलप्राणाः।
आनप्राणः प्राणः आयुःप्राणेन भवंति दश प्राणाः ॥ १५० ॥ टीका--पंचेंद्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि पंच , प्राणाः मनोवचः कायास्तु बलरूपास्त्रयः प्राणाः आनप्राणावुच्छासनिःश्वासलक्षण एकः प्राणा आयुर्भवधारणलक्षणं पुद्गलप्रचय एकः प्राणा एवमेते दश प्राणा भवंतीति ॥ १५० ।।