________________
२७०
मूलाचारे
एकेंद्रियादयः प्राणाः चतुर्दश तु भवंति जीवस्थानानि । गुणस्थानानि च चतुर्दश मार्गणास्थानान्यपि तथैव १४६ ___टीका-जीवस्थानान्याधारभूतानकेंद्रियादीन् प्रतिपादयति एकेंद्रियादय एकं सूत्रं प्राणो द्वितीयं सूत्रं चतुर्दश जीवस्थानानि भवंति तृतीयं सूत्रं गुणस्थानानि चतुर्दश चतुर्थ सूत्रं मार्गणास्थानानि चतुर्दश भवांत पंचमं सूत्रं पंचत्रिःसंग्रहस्तत्र संग्रहस्थानसूत्रं व्याख्यायते-जीवास्तिष्ठति येषु तानि जीवस्थानानि, गुणा मिथ्यात्वादयो निरूप्यंते येषु तानि गुणस्थानानि, जीवा मृग्यते येषु यैर्वा तानि मार्गणास्थानानि इति ॥ १४६ ॥
अथ का मार्गणाऽऽदौ जीवगुणमार्गणा का इत्याशंकायामाह;गदिआदिमग्गणाओ परूविदाओ य चोदसा चेव । एदेसिं खलु भेदा किंचि समासेण वोच्छामि ॥ १४७॥
गत्यादिमार्गणाः प्ररूपिताश्च चतुर्दश चैव । एतेषां खलु भेदाः कियंतः समासेन वक्ष्यामि ॥ १४७ ॥
टीका-गत्यादिमार्गणाश्चतुर्दश एवागमे निरूपिताः, चशब्दाद्वादरेकेंद्रियादीनि जीवस्थानानि चतुर्दश मिथ्यादृष्ट्यादीनि गुणस्थानानि चतुदशेत्येतेषां भेदान्कियतः समासेन संक्षेपेण प्रवक्ष्यमीति ॥ १४७ ॥
एवं सर्वमाक्षिप्यकेंद्रियादिभेदाँस्तावत्प्रातिपादयन्नाह;एइंदियादि जीवा पंचविधा भयवदा दु पण्णत्ता। पुढवीकायादीया विगला पंचेंदिया चेव ॥१४८॥
एकेंद्रियादयः जीवाः पंचविधा भगवता दु प्रज्ञप्ताः । पृथिवीकायादयः विकलाः पंचेंद्रिया एव ॥ १४८ ॥ टीका-ये एकेंद्रियादयो जीवाः संग्रहसूत्रेण सूचितास्ते पंचविधाः पंचप्रकारा एव भगवता प्रज्ञप्ताः । के ते पंचप्रकारा इत्याशंकाथामाह;