________________
पर्याप्तत्यधिकारः ।
अथ कैः किंभूताः कैः कृत्वा निर्वृतिं यांतीत्याशंकायामाह; -- सम्मर्द्दसणणाणेहिं भाविदा सयलसंजमगुणेहिं । fugविसव्वकम्मा णिग्गंथा णिव्वुदिं जंति ॥ १४४ ॥ सम्यग्दर्शनज्ञानाभ्यां भाविताः सकलसंयमगुणैः । निष्ठापितसर्वकर्माणो निर्मन्था निर्वृतिं यांति ॥ १४४ ॥
२६९
टीका - सम्यग्दर्शनज्ञानाभ्यां भाविताः सकलसंयम गुणैश्च भाविताःयथाख्यातसंयमविशुद्धिवर्द्धिता निष्ठापितसर्वकर्माणः विनाशितसर्वकर्मभूता संतो निर्ग्रथा अनंतचतुष्टयसहाया निर्वृतिं यांति नात्र संदेह इति ॥ १४४ ॥
अथ ते तत्र गत्वा कीदृग्भूतं सुखमनुभवंति कियंतं कालमधितिष्ठतीत्याशंकायामाह; -
ते अजरमरुजममरमसरीर मक्खयमणुवमं सोक्खं । अव्वाबाधमर्णतं अणागदं कालमत्थंति ॥ १४५ ॥ ते अजरमरुजममर मशरीरमक्षयमनुपमं सौख्यं । अव्याबाधमनंतं अनागतं कालं तिष्ठति ॥ १४५ ॥
टीका - मुक्तिं प्राप्ता अजरं न विद्यते जरावस्था वृद्धत्वं यत्र तदजरं, न विद्यते रुजा रोगों यत्र तदरुजं; न म्रियते यत्र तदमरं, अशरीरं औदारिकादिपंचशीररहितं, अक्षयं क्षयरहितं शाश्वतं सुखं अनंतज्ञानदर्शनसुखवीर्यरूपं, अव्याबाधं अन्योपघातविनिर्मुक्तं, अनंतमनागतं कालमधितिष्ठंति भविष्यत्कालपर्यंतं परमसुखे निमग्नास्तिष्ठतीति ॥ १४५ ॥
गत्यागतिस्वरूपं निरूप्य स्थानाधिकारं प्रतिपादयन्नाह; - एइंदियादि पाणा चौद्दस दु हवंति जीवठाणाणि । गुणठाणाणि य चौदस मग्गणठाणाणिवि तहेव १४६ ॥