________________
२६८
मूलाचारे
पुनरपि निश्चयेन ये ये सिद्धिं गच्छंति तान् प्रतिपादयन्नाह;सक्को सहग्गमहिसी सलोगपाला य दक्खिणिंदा य ॥ लोगतिगा यणियमा चुदादु खलुणिव्वुदि जंति ॥१४२॥ शक्रः सहायमहिषी सलोकपालाश्च दक्षिणेंद्राश्च । लोकांतिकाश्च नियमात् च्युतास्तु खलु निर्वृतिं यांति । १४२ ॥ टीका-शक्रः सौधर्मेंद्रः सहाग्रमहिषी अग्रमहिषी शची तया सह वर्तत इति साग्रमहिषी सलोकपालाः लोकान् पालयंतीति लोकपालाः चरारक्षिकसमानास्तैः सह वर्तन्त इति सलोकपालाः दक्षिणेंद्राश्च दक्षिणशब्दः प्रथमोच्चरणे वर्त्तते तेन सनत्कुमारब्रह्मलांतवशतारानतारणेन्द्राणां ग्रहणं च शब्देनान्येषां च, लोकांतिकाश्च सारस्वतादित्यवह्नयरुणन्द्रगर्दतोयतुषिताव्याबाधारिष्टाश्चाष्टप्रकारा ब्रह्मलोकवासिनो देवर्षयो नियमात् च्युता मनुष्यक्षेत्रमागता निवृतिं यांति । सौधर्मो मनुष्यभवं प्राप्य मोक्षं याति तथा तस्याग्रमहिषी लोकपालाश्च मनुष्यत्वं प्राप्य नियमतो निर्वृति यांति तथा दक्षिणेद्रा लौकांतिकाश्च चरमदेहतां प्राप्य निश्चयेन मुक्तिं गच्छांते स्फुटमेतन्नात्र संदेह इति ॥ १४२ ॥ ___ गत्यागत्यधिकारं समुच्चयन्नाह;एवं तु सारसमए भणिदा दु गदीगदी मया किंचि । णियमादु मणुसगदिए णिव्वुदिगमणं अणुण्णादं॥१४३॥
एकेन्द्रियादयः प्राणाः चतुर्दश तु भवंति जीवस्थानानि । गुणस्थानानि च चतुर्दश मार्गणास्थानान्यपि तथैव ॥ १४३॥ टीका--एवं तु अनेन प्रकारेण सारसमये ब्याख्याप्रज्ञप्तयां सिद्धांते तस्माद्वा भणिते गत्यागती गतिश्च भणिता आगतिश्च भणिता मया किंचित् स्तोकरूपेण । सारसमयादुद्धृत्य गत्यागतिस्वरूपं स्तोकं मया प्रतिपादितमित्यर्थः । निर्वृतिगमनं पुनर्मनुष्यगत्यामेव निश्चयेनानुज्ञातं जिनवरैर्नान्यासु गतिषु तत्र संयमाभावादिति ॥ १४३ ॥