________________
पर्याप्त्यधिकाराः।
२६७
ततः परं तु गैवेयकं भजनीयाः शलाकापुरुषास्तु । तेषामनंतरभवे भजनीयं निर्वृतिगमनं ॥ १३९ ॥ टीका-ततः परं सौधर्मप्रारभ्य नवौवयेकं यावत्तेभ्यो देवा आगत्य शलाकापुरुषा भवंति न भवंतीति भाज्यास्तेषामनंतरभवेन च निवृतिगमन.. भाज्यं कदाचिद्भवति कदाचिन्नेति ॥ १३९ ॥
तत ऊर्ध्वं वासुदेवा आगत्य भवंतीति प्रतिपादयन्नाह;णिव्वुदिगमणे रामत्तणे य तित्थयरचक्कवट्टित्ते । अणुदिसणुत्तरवासी तदो चुदाहोंति भयणिज्जा॥१४०॥ निवृत्तिर्गमनेन रामत्वेन च तीर्थकरचक्रवर्तित्वेन । अनुदिशानुत्तरवासिनः तेभ्यः च्युता भवंति भजनीया ॥ १४०॥ टीका-निर्वृतिगमनेन रामत्वेन तीर्थकरत्वेन चक्रवर्तित्वेन च भाज्याः अनुदिशानुत्तरवासिनो देवास्तेभ्यो विमानेभ्यश्च्युताः संतः कदाचित्तीर्थकररामचक्रवर्तिनो मुक्ताश्च भवंति न भवंति च, वासुदेवाः पुनर्न भवंति. एवेति ॥ १४० ॥
ये पुनर्निश्चयेन निवृतिं गच्छंति तान् प्रतिपादयन्नाह;सव्वट्ठादो य चुदा भज्जा तित्थयरचक्कवद्वित्ते । रामत्तणेण भज्जा णियमा पुण णिव्वुदि जति ॥१४१॥ सर्वार्थाच च्युता भाज्याः तीर्थकरचक्रवर्तित्वेन । रामत्वेन भाज्या नियमात् पुननिर्वृतिं यांति ॥ १४१ ॥ टीका-सर्वार्थात्सर्वार्थसिद्धेश्च्युता देवास्तीर्थकरत्वेन चक्रवर्तित्वेन रामत्वेन च भाज्याः, निर्वृतिं पुनर्निश्चयेन यांत्येव न तत्र विकल्पः सर्वे त आगत्य चरमदेहा भवंति तीर्थकरचक्रवर्तिगमविभूतिं भुक्का मंडलिकदिविभूतिं च संयममादाय नियमान्मुक्तिं गच्छति ॥ १४१॥