________________
२६६
मूलाचारे
द्रियपर्याप्ततिर्यङ्मनुष्येषु भोगभूमिजादिवर्जितेषु तत ऊर्द्ध सहस्रारं यावत् देवाश्च्युत्वा तिर्यक्तेन मनुष्यत्वेन च भाज्याः नैते एकेंद्रियेषूत्पद्यते पुनस्तिर्यग्ग्रहणान्नारकदेवविकलेंदियासंज्ञिसूक्ष्मापर्याप्तसर्वतेजोवासुभोगभूमिजादिषु सर्वे देवा नोत्पद्यंत इति च द्रष्टव्यं ॥ १३६ ॥ __ उपरितनानामाह;तत्तो परंतु णियमा देवावि अणंतरे भवे सब्वे । उववज्जति मणुस्से ण तेसिं तिरिएमु उववादो ॥१३७॥
ततः परं तु नियमात् देवा अपि अनंतरे भवे सर्वे । उत्पद्यते मानुष्ये न तेषां तिर्यक्षु उपपादः ॥ १३७ ॥ टीका-ततः सहस्रारादुपरि नियमाद्देवाः सर्वेऽपि अनंतरभवेन मनुष्येघूत्पद्यते न तेषां तिर्यसूपपादः च्यवनकाले महतः संक्लेशस्याभावो यत इति ॥ १३७ ॥ ___ शलाकापुरुषा आगत्य ये देवा न भवंति तान्प्रतिपादयन्नाह;
आजोदिसित्ति देवा सलागपुरिसा ण होंति तेणियमा। तेसिं अणंतरभवे भयणिज्जं णिव्वुदीगमणं ॥१३८॥ आज्योतिष इति देवा शलाकापुरुषा न भवंति ते नियमात् । तेषामनंतरभवे भाज्यं निर्वृतिगमनं ॥ १३८ ॥
टीका-आ ज्योतिषो देवा भवनवासिन आदौ कृत्वा ज्योतिष्का यावद्देवाः शलाकापुरुषा न भवंति तीर्थकरचक्रवर्तिबलदेववासुदेवा न भवंतीति निश्चयेन निवृतिगमनं पुनस्तेषामनंतरभवे भाज्यं कदाचिद्भवति कदाचिन्नेति तस्य सर्वथा प्रतिषेध्योनास्तीति ॥ १३८ ॥
अथ के शलाकापुरुषा भवंतीत्याशंकायामाह;तत्तो परंतु गेवेजं भयणिज्जा सलागपुरिसा दु । तेसिं अणंतरभवे भयणिज्जा णिव्वुदीगमणं ॥ १३९॥ .१ गेवनं इत्यपि पाठः।