________________
पर्याप्स्यधिकारः।
२६५
- अथाभव्या जिनलिंगेन कियडूरं गच्छंतीत्याशांकायामाह;जाउवरिमगेवेज्ज उववादो अभवियाण उक्कस्सो। उक्कद्वेण तवेण दुणियमा णिग्गंथलिंगेण ॥ १३४ ॥ यावत् उपरिमौवेयकं उपपादः अभव्यानां उत्कृष्टः। उत्कृष्टेन तपसा तु नियमान्निलिंगेन ॥ १३४॥ टीका--अभव्यानां निर्ग्रन्थलिंगेनोत्कृष्टतपसा निश्चयेनोत्पाद उत्कृष्टः भवनवासिनमादिं कृत्वोपरिमौवेयकं यावन्मिथ्यात्वभावेन शुभपरिणामेन रागद्वेषाद्यभावेनेति वक्तव्यं ॥ १३४ ॥
अथोपरि के न गच्छंतीत्याशंकायामाह;तत्तो परंतु णियमा तवदंसणणाणचरणजुत्ताणं । णिग्गंथाणुववादो जावदु सवठसिद्धित्ति ॥ १३५ ॥
ततः परं तु नियमात् तपोदर्शनज्ञानचरणयुक्तानाम् । निर्ग्रथानामुपपादः यावत् सर्वार्थसिद्धिरिति ॥ १३५॥ टीका-ततः सर्वोत्कृष्टय़वेयकादूर्ध्व परेषु नवोनुत्तरादिषु सौधर्मादिषु च निम्रन्थानां सर्वसंगपरित्यागिनां तपोदर्शनज्ञानचरणयुक्तानां चरमदेहिनां शुभपरिगामिनां निश्चयेनोपपादः सर्वार्थसिद्धिर्यावत् । सर्वार्थसिद्धिमंतं कृत्वा सर्वेषु सौधर्मादिषूत्पद्यंत इति ॥ १३५ ॥ __ अथ देवा आगत्य कोत्पद्यंत इत्याशंकायामाह;
आईसाणा देवा चएत्तु एइंदिएत्तणे भज्जा । तिरियत्तमाणुसत्ते भयणिज्जा जाव सहसारा ॥ १३६ ॥
आ ईशानात् देवाः च्युत्वा एकेंद्रियत्वेन भाज्याः। तिर्यक्त्वमानुषत्वेन भजनीया यावत् सहस्रारं ॥ १३६ ॥ टीका-भवनवासिनमादिं कृत्वा आ ईशानात् ईशानकल्पो यावत् देवाश्च्युत्वा एकेंद्रियत्वेन भाज्याः कदाचिदार्तध्यानेनागत्य पृथिवीकायिकाप्कायिकप्रत्येकवनस्पतिकायिकेषु बादरेषूत्पयंत परिणामवशेनान्येषु पंचें