________________
२६४
- मूलाचारे
टीका-संख्यातीतायुषामसंख्यातवर्षप्रमाणायुषां मनुष्याणां तिरश्चा च मिथ्यात्वभावेनोपपादः भवनवास्यादिषु ज्योतिष्कदेवेषु कंदफलायाहाराणां तापसानां चोत्कृष्ट उपपाद स्तेष्वेवं ज्योतिष्केषु शुभपरिणामेनान्येनेति ॥ १३१॥
अथाजीवकपरिव्राजकानां शुभपरिणामेन कियदूरगमनमित्याशंकायामाह;परिवायगाण णियमा उक्कस्सं होदि वंभलोगम्हि । उक्कस्स सहस्सारत्ति होदि य आजीवगाण तहा॥१३२॥ परिव्राजकानां नियमात् उत्कृष्टो भवति ब्रह्मलोके । उत्कृष्टः सहस्रार इति भवति च आजीवकानां तथा ॥ १३२ टीका-परिव्राजकानां संन्यासिनां शुभपरिणामेन नियमात् उत्कृष्ट उपपादो भवनवास्यादिब्रह्मलोके भवंति, आजीवकानां तथोपपादो भवन वास्यादि सहस्रारं यावद्भवति सर्वोत्कृष्टाचरणेन मिथ्यात्वभावेन शुभपरिणामेनेति वक्तव्यं नान्यथेति । अन्येषां च लिंगिनां भवनादिषु च द्रष्टव्यं शुभपरिणामेनेति ॥ १३२ ॥ __ अथोज़ क उप्तयंत इत्याह;तत्तो परं तु णियमा उवावादो णत्थि अण्णलिंगीणं । णिग्गंथसावगाणं उववादो अच्चुदं जाव ॥ १३३ ॥
ततः परं तु नियमात् उपपादो नास्ति अन्यलिंगिनां । निर्ग्रथश्रावकाणां उपपादः अच्युतं यावत् ॥ १३३ ॥
टीका-ततः सहस्रारादूर्ध्व परेषु कल्पेषु नियमादुपपादो नास्त्यन्यलिंगिनां परमोत्कृष्टाचरणेनापि, निग्रन्थानां श्रावकाणां आर्यिकाणां च शुभ परिणामेनोत्कृष्टाचरणेनोपपादः सौधर्ममादिं कृत्वा यावदच्युतकल्पः निश्चि. तमेतदिति ॥ १३३ ॥