________________
पर्याप्त्यधिकारः।
२६३
__ अथ केभ्य आगत्य शलाका पुरुषा भवंति केभ्यश्च न भवंतीत्याशंका यामाह;माणुस तिरियाय तहा सलागपुरिसा ण होंति खलु
णियमा। तेसिं अणंतरभवे भयणिज्ज णिव्वुदीगमणं ॥ १२९॥ मनुष्या स्तिय॑चश्च तथा शलाकापुरुषा न भवंति खलु नियमात् । तेषां अनंतरभवे भजनीयं निवृतिगमनं ॥ १२९॥ टीका-मनुष्यास्तथा तिर्यचश्च शलाकापुरुषास्तीर्थकरचक्रवर्त्तिबलदेववासुदेवा न भवंति नियमात् निर्वतिगमनं तु भाज्यं तेषां कदाचिदनंतर भवे न तेनैव भवे नवा भवति मनुष्याणां, न तु तिरश्चां युक्तमेतत् निर्वृतिगमनकारणं तु भवत्येव तिरश्चामपि सम्यत्कादिकं तेन न दोष इति ॥१२९॥
अथ मिथ्योपपादः के इत्याशंकायामाह;सण्णि असण्णीण तहा वाणेसु य तह य भवणवासीसु। उववादो वोधव्वो मिच्छादिट्ठीण णियमादु ॥ १३०॥
संज्ञिनां असंज्ञिनां तथा वानेषु च तथा च भवनवासिषु । उपपादो बोद्धव्यो मिथ्यादृष्टीनां नियमात् ॥ १३०॥
टीका-संज्ञिनामसंज्ञिनां च मिथ्यादृष्टीनां उपपादो मृत्वोत्पत्तिः कदाचिदानव्यंतरेषु कदाचिद्भवनवासिषु च वोद्धव्यो नियमेन, नात्र विरोध एतेषूत्पद्यतेऽन्यत्र च परिणामवशादिति ॥ १३०॥
अथ ज्योतिकिषु क उत्पद्यत इत्याशंकायामाह;संखादीदाऊणं मणुयतिरिक्खाण मिच्छभावेण । उववादो जोदिसिए उक्कस्सं तावसाणं दु ॥ १३१ ॥ संख्यातीतायुषां मनुष्यतिरश्चां मिथ्यात्वभावेन । उपपादो ज्योतिष्केषु उत्कृष्टस्तापसानां तु ॥ १३१ ॥ १ क्व इति भाति ।