________________
२६२
मूलाचारे
टीका-असज्ञिपर्याप्तकानां तिरश्चां संक्रमणमविरुद्धं न विरोधमुपयाति क मनुष्यतिर्यक्सुरनारकेषु चतसृषु गतिष्वपि व्रजंति न तु सर्वभावेषु नैव सर्वेषु नारकतिर्यङ्मनुष्यदेवपर्यायेषु यतः प्रथमायामेव पृथिव्यामुत्पद्यतेऽसंज्ञिनस्तथा देवेषु भवनवासिव्यंतरज्योतिष्कघूत्पद्यते नान्यत्र तथा भोगभूमिजेषु तत्प्रतिभागजेष्वन्येष्वपि पुण्यवत्सु तिर्यङ्मनुष्येषु नोत्पद्यते ॥ १२६ ॥ __ अथासंख्यातायुषः केभ्य आगच्छंतीत्याह,संखादीदाओ खलु माणुसतिरिया दु मणुयतिरियेहिं । संखिज्जआउगेहिं दुणियमा सण्णीय आयंति ॥१२७ ।। संख्यातीतायुषः खलु मानुषतिर्यंचस्तु मनुष्यतिर्यग्भ्यः । संख्यातायुष्केभ्यस्तु नियमात् संज्ञिभ्यः आयान्ति ॥ १२७ ॥ टीका-संख्यातीतायुषः भोगभूमिजा भोगभूमिप्रतिभागजाश्च मनुष्यस्तिर्यंचः संख्यातायुष्केभ्यो मनुष्यतिर्यग्भ्यः संज्ञिभ्योऽपि नियमनायांति व्यक्तमतत् नान्यत्र दानानुमोदोऽदत्तादानफलं च यत इति ॥ १२७ ॥ __ अथ संख्यातीतायुषो मृत्वा कां गतिं गच्छंतीत्याशंकयामाह,-- संखादीदाऊणं संकमणं णियमदो दु देवेसु । पयडीए तणुकसाया सबसि तेण बोधव्वा ॥ १२८ ।।
संख्यातीतायुषां संक्रमणं नियमस्तु देवेषु । प्रकृत्या तनुकषायाः सर्वेषां तेन बोद्धव्याः ॥ १२८ ।।
टीका-संख्यातीतायुषां भोगभूमिजानां भोगभूमिप्रतिभागजानां च संक्रमणं मृत्वोत्पादः नियमतस्तु देवेषु, कुत एतत् यतः प्रकृत्या स्वभावेन तेषां तनवोल्पाः कषायाः क्रोधमानमायालोभास्तेन ते देवेषूत्पद्यत इति ज्ञातव्यं नात्र शंका कर्त्तव्येति ॥ १२८॥