________________
पर्याप्यधिकार।
२६१
.. तेजोवायूनां संक्रमणमाह;सब्वेवि तेउकाया सव्वे तह वाउकाइया जीवा। ण लहंति माणुसत्तं णियमादु अणंतरभवहिं॥१२४ ॥ सर्वेपि तेजाकायाः सर्वे तथा वायुकायिका जीवाः । न लभते मानुषत्वं नियमात् अनंतरभवेन ॥ १२४ ॥ टीका-सर्वेऽपि वादरसूक्ष्मपर्याप्तापर्याप्ता तेजस्कायिकास्तथैव सर्वे वादरसूक्ष्मपर्याप्तापर्याप्ताः वायुकायिका जीवा न लभंते न प्राप्नुवंति मनुध्यत्वं नियमात्तु अनंतरभवेन तेनैव भवेनेति ॥ १२४ ॥
प्रत्येकवनस्पतिपृथिवीकायाप्कायबादरपर्याप्तानामागमनमाह;पत्तेयदेहा वणप्फइ वादरपज्जत्त पुढवि आऊय । माणुसतिरिक्खदेवेहि चेवाइंति खलु एदे ॥ १२५॥
प्रत्येकदेहा वनस्पतयो बादराः पर्याप्ताः पृथिवी आपश्च। मानुषतिर्यग्देवेभ्यः एव आयांति खलु एते ॥ १२५ ॥ ..
टीका-प्रत्येकदेहाः नालिकेरादिवनस्पतयः बादराः पर्याप्ता पृथिवीकायिका आपूायिकाश्चैतेऽपि बादराः पर्याप्तापर्याप्ताश्च मनुष्यतिर्यग्देवेभ्य एवायांति स्फुटमेतत् नान्येभ्य इति । मनुष्यतिर्यग्देवाः संक्लिष्टा आर्तध्यानपरा मिथ्यादृष्टय आगत्य प्रत्येकवनस्पतिपृथिवीकायिकापायिकषूत्पयंत इति ।। १२५॥ __ असंज्ञिपर्याप्तानां संक्रमणमाह;अविरुद्धं संकमणं असण्णिपज्जत्तयाण तिरियाणं । माणुसतिरिक्खसुरणारएसुण दु सब्यभावेसु ॥ १२६ ।।
अविरुद्धं संक्रमणं असंज्ञिपर्याप्तकानां तिरश्चां। मानुषतिर्यक्र नारकेषु न तु सर्वभावेषु ॥ १२६ ॥