SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ मूलाचारे २६० wwwwwwwwwwwwwwwwwwwwwwwww सव्वमपज्जत्ताणं सुहुमकायाण सव्वतेऊणं । वाऊणमसण्णीणं आगमणं तिरियमणुसेहिं ॥ १२२ ॥ सर्वापर्याप्तानां सूक्ष्मकायानां सर्वतेजसा । वायूनामसंज्ञिनामागमनं तिर्यजनुष्येभ्यः ॥ १२२ ॥ टीका-सव्व सर्वेषां अपज्जत्ताणं अपर्याप्तानां सुहुमकायाणं सूक्ष्मकायानां सव्वतेऊणं सर्वतेजस्कायानां वाऊणं वायुकायानां असणीणं असंज्ञिनां अत्रापि सर्वशब्दः संबंधनीयः सर्ववायुकायानां सर्वासंज्ञिनां चागमनमागतिः तिरियमणुसेहिं तिर्यअनुष्यैः । पृथिवीकायिकाप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिका द्वीन्द्रियत्रीन्द्रियचतुरािंद्रयपंचेंद्रियाणां ये लब्ध्यपप्तिास्तेषु मध्यषु तिर्यंचो मनुष्याश्चोत्पद्यते तथा पृथिवीकायिकादिवनस्पतिपर्यन्तेषु सर्वसूक्ष्मेष्वपर्याप्तेषु तथा तेजःकायिकवायुकायिकेषु बादरेषु पर्याप्तापर्याप्तेषु असंशिषु च तिर्यजनुष्या एवोत्पद्यते न देवा नापि नारका न चैव भोगभूमिजा भोगभूमिप्रतिभागजाश्चति ॥ १२२ ॥ अतः पृथिवीकायादयो गत्वा क्वोत्पद्यत इत्याशंकायामाह;तिण्हं खलु कायाणं तहेव विगलिंदियाण सब्वेसिं। अविरुद्धं संकमणं माणुसतिरिएसु य भवेसु ॥ १२३॥ त्रयाणां खलु कायानां तथैव विकलेंद्रियाणां सर्वेषाम् । ।। अविरुद्धं संक्रमणं मानुषतिर्यक्षु च भवेषु ॥ १२३॥ टीका-तिण्हं त्रणायां खलु स्फुटं कायाणं कायानां पृथिवीकायाप्कायवनस्पतिकायानां तहेव तथैव विगलिंदियांणं सर्वेषां विकलेंद्रियाणां पर्यातापर्याप्तानां अविरुद्धं अप्रतिषिद्धं संक्रमणं गमनं माणुस मनुष्यभवे तिरिय तिर्यग्भवे । पृथिवीकायिकाप्कायिकवनस्पतिकायिकाः सर्वे विकलोंद्रियाश्चागत्य तिर्यक्षु मनुष्येषु चोत्पद्यते नात्र विरोध इति ॥ १२३ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy