SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। २५९ तेन परं पृथिवीषु च भजनीया उपरितमास्तु नारकाः। नियमादनंतरभवेन तीर्थकरत्वस्योत्पत्तिः॥ ११९ ॥ टीका--तेन परं तस्माश्च पृथिव्या ऊर्दू पुढवीसु य पृथिवीषु च प्रथमद्वितीयतृतीयप्रभासु भयणिज्जा भाज्या विभाज्या उवरिमा उपरितमा णेरइया नारकाः नियमादनंतरभवेन तीर्थकरत्वस्योत्पत्तिः । तृतीयद्वितीयप्रथमभ्यो नरकेभ्य आगतानां नारकाणां तेनैव भवेन संयमलाभो मोक्षगतिस्तीर्थकरत्वं च संभवति नात्र प्रतिषेध इति ॥ ११९ ॥ सप्तभ्यः पृथिवीभ्य आगतास्तेनैव भवेन यन्न लभते तदाह;णिरयेहिं णिग्गदाणं अणंतरभवम्हि णत्थि णियमादो। बलदेववासुदेवत्तणं च तह चक्कवदित्तं ॥ १२० ॥ नरकेभ्यो निर्गतानां अंतरभवे नास्ति नियमात् । बलदेववासुदेवत्वं च तथा चक्रवर्तित्वम् ॥ १२० ॥ टीका-नरकेभ्यो निर्गतानामनंतरभवे नास्ति नियमात् बलदेवत्वं वासुदेवत्वं तथा सकलचक्रवर्त्तित्वं च । नरकादागतस्य तेनैव भवेन बलदेववासुदेवचक्रवर्तिभावा न संभवंति संयमपूर्वका यतः नरके च संयमेन गमनं नास्तीति ॥ १२० ॥ नारकाणां गत्यागतिस्वरूपमुपसंहरन् शेषाणां च सूचयन्नाह;उववादोवदणमा णेरइयाणं समासदो भणिओ। एत्तो सेसाणं पिय आगदिगदिमो पवक्खामी १२१ ॥ उपपादोद्वर्त्तने नारकाणां समासतो भणिते । इतः शेषाणामपि च आगतिगती प्रवक्ष्यामि ॥ १२१ ॥ .... टीका-उपपादोदर्तने गत्यागती नारकाणां समासतो भणिते अति- . पादिते, इत ऊर्दू शेषाणां तिर्यजनुष्यदैवानां च ये संभक्तो गत्यागती ने प्रवक्ष्याम्यागमबलाद्भणिष्मामीति ॥ १२१ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy