________________
२५८
मूलाचार
तु विहींनाः । षष्ठनरकादागतानां तस्मिन् भवे कदाचिन्मनुष्यलाभः सम्यक्त्वलाभश्च भवति नापि भवति, संयमलाभस्तु निश्चयेन न भवतीति ॥११६॥
पंचमपृथिव्या आगता यल्लभंते यच्च न लभंते तदाह;होजदु संजमलामो पंचमखिदिणिग्गतस्स जीवस्स। णत्थि पुण अंतकिरिया णियमा भवसंकिलेसेण ॥११७॥ भवतु संयमलाभः पंचमक्षितिनिर्गतस्य जीवस्य । नास्ति पुनः अंतक्रिया नियमात् भवसंक्लेशेन ॥ ११७॥
टीका-पंचमपृथिव्या निर्गतस्य जीवस्य भवत्येव संयमलाभः, अंतक्रिया मोक्षगमनं पुनर्नियमान्नास्ति भवसंक्लेशदोषेणेति । यद्यपि पंचमनरकादागतस्य संयमलाभो भवति तथापि मोक्षगमनं नास्ति भवसंक्केशदोषेणेति ॥ ११७॥
चतुर्थ्या आगतस्य यद्भवति तदाह;होजदु णिव्वुदिगमणं चउत्थिखिदिणिग्गदस्स जीवस्स। णियमा तित्थयरत्तं णत्थित्ति जिणेहिं पण्णत्तं ॥११८॥
भवतु निर्वृतिगमनं चतुर्थीक्षितिनिर्गतस्य जीवस्य । नियमात्तीर्थकरत्वं नास्तीति जिनैः प्रज्ञप्तम् ॥ ११८॥
टीका-चतुर्थक्षितेरागतस्य जीवस्य भवत्येव निर्वृतिगमनं, तीर्थकरत्वं पुनर्निश्चयेन नास्ति जिनैः प्रज्ञप्रमेतत् । चतुर्थनरकादागतस्य यद्यपि निर्वृतिगमनं भवति जीवस्य तथापि तीर्थकरत्वं नास्ति, नात्र संदेहो जिनैः प्रतिपादितत्वादिति ॥ ११८॥ __ तत ऊर्द्धमाह;तेण परं पुढवीसु भयणिज्जा उवररिमा हु परइया। णियमा अणंतरभवे तिस्थयरत्तस्स उत्पत्ती ॥ ११९ ।