SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पर्याप्स्यधिकारः। २५७ उद्वर्तिताः संतो नारकास्तमस्तमसः पृथिवीतः। नं लभंते मानुषत्वं तिर्यग्योनिमुपनयंति ॥ ११४॥ टीका-तमस्तमः पृथिव्या नारका उद्घर्त्तिताः संतः सप्तमनरकादगताः संतो मानुषत्वं मनुष्यभवं न लभंते न प्राप्नुवति सुष्ठु संक्लेशकारणं यतस्ततस्तिर्यग्योनमपनयंति सिंहव्याघ्रादिकं पुनः पापकारणं प्राप्नुवति ॥ ११४॥ - अथ केषु तिर्यसूत्पद्यत उत्पन्नाश्च क गच्छंतीत्याशंकायामाहः,वालेसु य दाढीमु य पक्खीसु य जलचरेसु उववण्णा। संखेजआउठिदिया पुणेवि णिरयावहा होंति ॥११५॥ व्यालेषु च दंष्ट्रीसु च पक्षिषु च जलचरेषु उत्पन्नाः। - संख्यातायुःस्थितिकाः पुनरपि निरयावहा भवंति ॥११५॥ - टीका-वालीसु व्यालेषु श्वापदभुजगेषु चशब्दादन्येष्वपि तत्समानेषु दाढीसु य दंष्ट्रिषु च सिंहव्याघ्रवराहादिषु पक्खीसु य पक्षिषु च गृध्रभेरुंडादिषु च जलयरेसु जलचरेषु तिमितिमिंगलादिमत्स्यमकरादिषु उववण्णा उत्पन्नाः संखेज्जाउहिदिया संख्यातायुःस्थितिर्येषां ते संख्यातायु:स्थितिकाः कर्मभू मिकर्मभूमिप्रतिभागजाः संतः पुणेवि पुनरपि पापवशात् णिरयावहा नरकावहा नारका होति भवंति नारककर्मसमानका भवंति । सप्तमपृथिव्या आगत्य व्यालदंष्ट्रिपक्षिजलचरेषूत्पद्य पुनरपि नरकं गच्छंतीति ॥ ११५ ॥ अथ षष्ठया आगताः कोत्पद्यते किं लभते किं च न लभंत इत्याशंकायामाहः,छट्ठीदो पुढवीदो उबट्ठिदा अणंतर भवम्हि ।। मज्जा माणुसलंभे संजमलंभेण दु विहीणा ॥ ११६ ॥ षष्ठ्याः पृथिव्या उद्वर्तिता अनंतर भवे। भाज्या मनुष्यलाभे संयमलाभेन तु विहीनाः ॥ ११६ ॥ टीका-षष्ठयाः पृथिव्या षष्ठनरकादुर्त्तिता आगताः संतोऽनंतरभवे तस्मिन् भाज्या विकल्पयुक्ताः मनुष्यलाभेन सम्यक्त्वलाभेन च, संयमलाभेन
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy