________________
२५६
मूलाचारे
पढमं पुढविमसण्णी पढमं विदियं च सरिसवा जंति। पक्खी जावदु तदियं जाव चउत्थी दु उरसप्पा॥११२॥ प्रथमां पृथिवीमसंज्ञिनः प्रथमां द्वितीयां च सरीसृपा यांति। पक्षिणो यावत् तृतीयां यावच्चतुर्थी तु उरःसर्पाः ॥ ११२ ॥ टीका-यांतीति क्रियापदं तेन सह संबंधः, प्रथमां पृथिवीमसंज्ञिनोऽमनस्का यांति प्रथमां द्वितीयां च पृथिवीं कृकलासादयो यांति, पक्षिणो सरीसृपगोध भेरुंडादयः प्रथमामारभ्य यावत्तृतीयां पृथिवीं यांति प्रथमामारभ्य यावच्चतुर्थी पृथिवीमुरः सर्पा अजगरादयो यांति।अत्र पापं कृत्वा तत्र च गत्वा दुःखमनुभवंतीति ।। ११२ ॥ .
तथाःआ पंचमिति सीहा इत्थीओ जति छद्विपुढवित्ति। गच्छंति माघवीत्तिय मच्छा मणुया य ये पावा॥११३॥
आपंचामिति सिंहाः स्त्रियो यांति षष्ठीपृथिवीमिति । गच्छंति माधवीमिति च मत्स्या मनुजाश्च ये पापाः॥ ११३ ॥ टीका-आङभिविधौ द्रष्टव्यः आ पंचम्या इति । प्रथमामारभ्य यावत्पंचमी सिंहव्याघ्रादयो गच्छंति, स्त्रियः पुनर्महापापपरिणताः प्रथमामारभ्य षष्ठीपृथिव्यंतं यांति, मत्स्याः मनुष्याश्च ये पापा महाहिंसादिपरिणताः माधवीं सप्तमी पृथिवीं प्रथमामारभ्य गच्छंति । अयं पापशब्दः सर्वेषामभिसंबध्यते । यदि रौद्रध्यानेन हिंसादिक्रियायां परिणताः स्युस्तदा ते पापानुरूपं नरकं गत्वा दुःखमनुभवंतीति ॥ ११३ ॥ ____नारकाणामुपपादं प्रतिपाद्य तेषामुद्वर्त्तनं प्रतिपादयन्नाह,-- उव्वद्दिदाय संता रइया तमतमादु पुढवीदो। ण लहंति माणुसत्तं तिरिक्खजोणीमुवणयंति ॥ ११४॥