________________
पर्याप्त्यधिकारः।
२५५
टीका-असुराणं असुराणां प्रथमभवनवासिनां असंखेज्जा असंख्याताः कोडी कोट्यो योजनानामिति संबंधः, जघन्योवधिरसुराणां चंद्रादीनां चासंख्याता योजनकोट्यः, इत उत्कृष्टं ज्योतिष्कादीनामाह,जोइसिय ज्योतिष्काणां चंद्रादीनां सेसाणं शेषाणां भवनवासिव्यंतराणां निकृष्टकल्पवासिनां च संखादीदा य संख्यातीताश्च संख्यामतिक्रांताः 'असंख्याता योजनकोटीकोट्यः खलु स्फुटं उक्कस्सोही उत्कृष्टावधिः विस
ओ विषयः । भवनवासिवानव्यंतरज्योतिष्काणामुत्कृष्टावधिविषयोऽसंख्याता योजनानां कोटीकोट्यः निकृष्टकल्पवासिनां च मिथ्यादृष्टीनां पुनर्विभंगज्ञानं संख्यातयोजनविषयमसंख्यात योजनविषयं चेति ॥ ११० ॥
नारकाणामवधिविषयं निरूपयन्नाहःरयणप्पहाए जोयणमेयं ओहीविसओ मुणेयव्यो। पुढवीदो पुढवीदो गाऊ अद्धद्ध परिहाणी ॥ १११ ॥ रत्नप्रभायां योजनमेकं अवधिविषयो ज्ञातव्यः। पृथिवीतः पृथिवीतो गव्यूतस्यार्धाध परिहानिः ॥ १११ ॥ टीका-रयणप्पहाय रत्नप्रभायां प्रथमपृथिव्यां जोयणमेयं योजनमेकं चत्वारि गव्यूतानि ओहीविसओ अवधिविषय अवधिज्ञानस्य गोचरो मुणेयव्वो ज्ञातव्यः, प्रथमपृथिव्यां नारकाणामवधिविषयो योजनप्रमाणं स्वस्थानमादिं कृत्वा यावद्योजनमात्रं पश्यति, मिथ्या दृष्टीनां विभंगज्ञानं स्तोकमानं ततोऽधः पुढवीदो पुढवीदो पृथिवीतः पृथिवीतः पृथिवीं प्रति पृथिवीं प्रति गाऊ गव्यूतस्य अद्धद्ध अर्द्धस्यार्द्धस्य परिहाणी परिहानिः गव्यूतार्द्धस्य परिक्षयः। द्वितीयायां पृथिव्यां त्रीणि गव्यूतानि गव्यूतार्द्ध च, सर्वत्र नारकाणामवधेर्विषयः संबंधनीयः; तृतीयायां त्रीणि गव्यूतानि, चतुझं द्वे ग-यूते साढे, पंचम्यां द्वे गव्यूते, षष्ठ्यां गव्यूतमेकं सार्द्ध, सप्तम्यामेकं गव्यूतं सम्यग्दृष्टीनामेतत् मिथ्यादृष्टीनां पुनर्विभंगाज्ञानमस्मान्यूनमिति । १११॥