________________
२५४
मूलाचारे
लोगंतं लोकांतं अधोवातपर्यंत । आनतप्राणतकल्पोर्दवाः स्वविष्टरमारभ्य यावत्पंचमपृथिवीपर्यंतं तावत्पश्यति आरणाच्युतकल्पयोः पुनर्देवाः स्वावस्थानमारभ्य यावच्छष्ठपृथिवीपर्यंतं तावत्पश्यति, नवग्रैवेयकेषु देवाः स्वविमानमारभ्य यावत्सप्तमी तावत्पश्यंति, नेवानुदिशेषु पंचानुत्तरेषु च देवाः स्वदेवगृहमारभ्य यावल्लोकांतं पश्यंति, ऊर्द्ध पुनः सर्वे स्वविमानध्वजामं यावत्पश्यंत्यसंख्यातयोजनानि वा तिर्यक पुनरसंख्यातानि योजनानि पश्यंतीत्यर्थः ॥ १०८॥
व्यंतरादीनामवधिविषयमाहः-पणवीस जोयणाणं ओही वितरकुमारवग्गाणं । संखेजजायणोही जोदिसियाणं जहण्णं तु ॥ १०९ ॥ पंचविंशति योजनानां अवधिः व्यंतरकुमारवर्गाणां । संख्यातयोजनान्यवधिः ज्योतिषां जघन्यं तु ॥ १०९ ॥ टीका-पणवीस पंचविंशतिः जोयणाणं योजनानां ओही अवधिज्ञानं भवप्रत्ययजं वितर व्यंतराणां किंनराधष्टप्रकाराणां कुमारवग्गाणं कुमारवगाणां नागकुमारादिनवानां संखेज्जजोयण संख्यातयोजनानि सप्ताष्टादीनि ओही अवधिः जोदिसियाणं ज्योतिषां चतुः प्रकाराणां जहण्णं हु जघन्य एव । व्यंतराणां नागादिनवकुमाराणां च पंचविंशतियोजनान्यवधिर्जघन्यो भवति, ज्योतिष्काणां पुनर्जघन्यतोऽवधिः संख्यातयोजनानि, एतावन्मात्रं वस्तु परिछिंदंतीति ॥ १०९ ॥ __ असुरचंद्रादित्यादीनां जघन्यं सर्वेषामुत्कृष्टं चावधि प्रतिपादयन्नाह,:असुराणमसंखेज्जा कोडी जोइसिय सेसाणं। संखादीदा य खलु उक्कस्सोहीयविसओ दु॥ ११० ॥
असुराणामसंख्याताः कोट्यो ज्योतिडकाणां शेषाणां । संख्यातीताश्च खलु उत्कृष्टः अवधिविषयस्तु ॥ ११॥