SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकार। २४३ यावत् आरणाच्युतौ गमनागमनं च भवति. देवीनां। ततः परं तु नियमात देवीनां नास्ति तासां गमनं ॥ ११ ॥ टीका-यावदु-यावत्, आरणअच्चुद-आरणाच्युतौ, गमणं-गमनं, आगमणं-आगमनं चशब्दः समुच्चये, होदि-भवति, देवीणं-देवीनां, तत्तो-ततस्ताभ्यामूर्द्ध परंतु-परतः, णियमा-नियमात् निश्चयात्, देवीणंदेवीनां, णत्थि-नास्ति न विद्यते, से-तासां गमणं-गमनं । यावदारणाच्युतकल्पौ तावदागमनं च भवति देवीनां ततः परेषु नवग्रैवेयकनवानुत्तरपंचानुत्तरेषु नास्ति तासां देवीनां गमनं कुत एतत् पूर्वागमात् ॥ ९१ ॥ तमेवागमं प्रदर्शयतीति;कंदप्पमाभिजोगा देवीओ चावि आरण चुदोत्ति। .. लंतवगादो उवरि ण संति संमोहखिब्भिसया ॥९२॥ कांदा आभियोग्या देव्यश्चापि आरणाच्युतौ इति । लांतवकात् उपरि न संति संमोहाः किल्बिषिकाः ॥ ९२ ॥ टीका-कंदप्प-कंदर्पस्य भावः कांदर्प कांदर्प योगाद्देवाः कांदाः प्रहासोपप्लवशीलाः, अभिजोगा-अभियोग्या वाहनसुराः, देवीओ-देव्यः, चावि-चापि समुच्चयसंभावनार्थः, आरणच्चुदोत्ति आरणाच्युतौ चशब्देन यावच्छब्दः समुच्चीयते। तेनैवमभिसंबंधः क्रियते । कांदा आभियोग्या देव्योऽपि यावदारणाच्युतौ, अस्मादागमाज्ज्ञायते नास्ति देवीनामूद ममनं । लंतवगादो-लांतवका, उवरि-उपरि ऊर्द्ध न संति न विद्यते, संमोह-सम्मोहा भंडदेवा नित्यमैथुनसेविनः श्ववत् । खिब्भिसियाकिल्विषिकाः पाटहिकमौरविकादयः वादित्रवादनपराः । लांतवादुपरि किल्बिषिकाः संमोहाश्च न संतीति ॥ ९२ ॥ .१ आरणाच्युतकल्पी यावदागमनं भवति देवीनां ततः परस्मिन् ख-ग। २ तदेवागमनं प्रदर्शयतीति प्रेस-पुस्तके । ३ कादर्पयोगोद्भवाः प्रेस-पुस्तके ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy