________________
२४२
: मूलाचार
असंज्ञिनश्च, तिरिय-तिर्यंचः, मणुसा य-मनुष्याश्च ते होंति-ते सर्वे भवंति, इत्थिपुरिसा-स्त्रीपुरुषाः, णपुंसगा-नपुंसकाश्चापि, वेदेहि-वेदैर्वेदेषु वा । पूर्वोक्तानां शेषाः पंचेंद्रियाः संज्ञिनोऽसंज्ञिनश्च ये तिर्यंचो मनुष्यास्ते सर्वेऽपि स्त्रीपुंनपुंसकास्त्रिभिदैर्भवंति पुनर्वेदग्रहणं द्रव्यवेदप्रतिपादनार्थ भाववेदस्य स्त्रीपुनपुंसकग्रहणेनैव ग्रहणादिति ॥ ८९ ॥
ननु यथा तिर्यङ्कनुष्येषु सर्वत्र स्त्रीलिंगमुपलभ्यते किमेवं देवेष्वपि नेत्याह;आ ईसाणा कप्पा उववादो होइ देवदेवीणं । तत्तो परंतु णियमा उववादो होइ देवाणं ॥ ९ ॥
आ ईशानात् कल्पात् उपपादो भवति देवदेवीनां । ततः परं तु नियमात् उपपादो भवति देवानां ॥ ९० ॥ . टीका-नात्रोपपादकथनमन्याय्यं विषयभेदात्, देवेषु स्त्रीलिंगस्य भावाभावविषयककथनमेतत् नोपपादकथनं, आङयमभिविधौ गुह्यते ईसाणा-ईशानात् कप्पो कल्पात् उववादो-उपोदो, होइ-भवति, देवदेवीणं देवदेवीनां देवानां देवीनांच, ततस्तस्मादीशानात्परं तूर्द्ध सनत्कुमारादिषु उववादो उपपाद । उत्पत्तेःसंभवः, होइ-भवति, देवाणं-देवानां । आईशानात्कल्पादिति किमुक्तं भवति-भवनव्यंतरज्योतिष्केषु सौधर्मेशानयोश्च कल्पयोर्देवानां देवीनां चोपपादः स्त्रीलिंगपुंल्लिंगयोरुत्पत्तेः, परेषु कल्पेषु सनत्कुमारादिषु देवानामेवोत्पत्तेः संभवो न चात्र स्त्रीलिंगस्योत्पत्तेः संभव इति ॥ ९ ॥ अथ स्त्रीलिंगस्या ईशानादुत्पन्नस्यकियङ्करगमनमित्याशंकायामाह;जावदु आरणअचुद गमणागमणं च होइ देवीणं । तत्तो परं तु णियमा देवीणं णत्थि से गमणं ॥११॥ १ तदेवमन्येष्वपि किं प्रेस-पुस्तके । २ पातः ख-ग। परंतु परत ऊर्च ख-ग।