SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पर्याप्तत्यधिकारः । २४१ - नपुंसक वेदेन नपुंसका नपुंसकलिंगाः, णायब्बा - शातम्या:, होंति-भवंति, नियमादु – नियमात् निश्वयात् । सर्वे एकेंद्रियाः, सर्वे च विकलेंद्रियाः, नारकाः, सर्वे सम्मूर्च्छनजाः पंचेन्द्रियाः संज्ञिनोऽसंज्ञिनम्श्व वेदेन नपुंसका भवतीति ज्ञातव्या नात्र संदेहः सर्वज्ञवचनं यत इति ॥ ८७ ॥ स्वामित्वेन स्त्रीलिंगपुंल्लिंगयोः स्वरूपमाह - देवा य भोगभूमा असंखवासाउगा मणुयतिरिया । ते होंति दोसुवेदे णत्थि तेसिं तदियवेदो ॥ ८८ ॥ देवाश्च भोगभौमा असंख्यवर्षायुषः मनुजतिर्यचः । ते भवंति द्वयोः वेदयोः नास्ति तेषां तृतीयवेदः ॥ ८८ ॥ टीका - देवा य - देवा भवनवासिव्यंतरज्योतिष्ककल्पवासिनः, च शब्दः समुच्चयार्थः, भोगभूमा – भोगभौमास्त्रिंशद्भोगभूमिजातास्तिर्यङ्मनुष्याः, असंखवासाउगा - असंख्यवर्षायुषो भोगभूमिप्रतिभागजाः, सर्वे म्लेच्छखंडोत्पन्नाश्च मनुष्याः, तिरिया – तिर्यचः, ते होंति - ते भवंति, दोसु वेदेसु द्वयोर्वेदयोर्द्वाभ्यां वेदाभ्यां णत्थि - - नास्ति न विद्यते, तेसिं— तेषां पूर्वोक्तानां तदियवेदो- तृतीयवेदो नपुंसकलिंगं । देवा भोगभौमा असंख्यातवर्षायुषस्तिर्यचः भोगभूमिप्रतिभागजाः च शब्दान्म्लेच्छाश्व सर्वे एते स्त्रीलिंगपुंल्लिंगाभ्यां भवति नास्ति तृतीयं नपुंसकलिंगमिति ॥ ८८ ॥ , विशेषणं त्रिलिंगत्वं प्रतिपादयन्नाह ; - पंचेंद्रिया दु सेसा सण्ण असण्णीय तिरिय मणुसा य । ते होंति इत्थिपुरिसा णपुंसगा चावि वेदेहिं ॥ ८९ ॥ पंचेंद्रियास्तु शेषाः संज्ञिनोः असंज्ञिनश्च तिर्यंचो मनुष्याश्च । ते भवंति, स्त्रीपुरुषा नपुंसकाञ्चापि वेदैः ॥ ८९ ॥ टीका - पंचेंदिया दु-पंचेंद्रियास्तु, सेसा - शेषाः देवनारकभोगभूमिजभोगभूमिप्रतिभागजतिर्यम्लेच्छवर्ज्या अन्ये सण्णि संज्ञिनः असण्णीय १६
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy