________________
मुलाचारे
यविशारदाः । विपुलबुद्धयः महामतयः अथवा ऋजुमतयो विपुलमतयश्च मनःपर्ययज्ञानिन इत्यर्थः । निपुणार्थशास्त्रकुशलां निरवशेषार्थकुशलाः सिद्धांतव्याकरणतर्कसाहित्यछन्दःशास्त्रादिकुशलाः, । परमपदस्य विज्ञायका मुक्तिस्वरूपावबोधनपराः श्रमणा मुनय इति ॥ ६७ ॥
ज्ञानमदनिराकरणायाह;- . अवगदमाणत्थंभा अणुस्सिदा अगग्विदा अचंडा य । दंता मद्दवजुत्ता समयविदण्हू विणीदा य ॥ ६८॥
अपगतमानस्तंभा अनुत्सृता अर्विता अचंडाश्च । दांता मार्दवयुक्ताः समयविदो विनीताश्च ॥ ६८ ॥ टीका-अपगतमानस्तंभा ज्ञानगर्वेण मुक्तास्तथाऽगर्विता जात्यादिमदरहिताः, अनुत्सृता अनुत्सुका वा कापोतलेश्यारहिताः, अचंडाश्च क्रोधरहिताः, दाता इंद्रियजयसमेताः, मार्दवयुक्ताः, स्वसमयपरसमयविदः, विनीताश्च पंचविधविनयसंयुक्ता इति ॥ ६८॥ ___ तथा;उवलद्धपुण्णपावा जिणसासणगहिद मुणिदपज्जाला । करचरणसंवुडंगा झाणुवजुत्ता मुणी होति ॥ ६९॥ उपलब्धपुण्यपापा जिनशासनगृहीता ज्ञातव्यस्वरूपाः । करचरणसंवृतांगा ध्यानोपयुक्ता मुनयो भवति ॥६९॥ . टीका-उपलब्धपुण्यपापाः पुण्यप्रकृतीनां पापप्रकृतीनां स्वरूपस्य बोदतारस्तथा पुण्यफलस्य पापफलस्य च ज्ञातारः, जिनशासनगृहीता जिनशासने स्थिता इत्यर्थः, मुणिदपज्जाला-ज्ञाताशेषद्रव्यस्वरूपा अथवा विज्ञातरागस्वरूपाः, करणं त्रयोदशविधं चारित्रं त्रयोदशविधं ताभ्यां संवृतमंगं येषां ते करचरण