________________
अनगारभावनाधिकारः।
६७
सवृतांगो अत्र प्राकृते णकारस्याभावः कृतः । अथवा करौ हस्तौ चरणौ पादौ तैः संवृतमंगं तेऽवयवप्रावरणा यत्र तत्र निक्षेपणमुक्ताश्च, ध्यानोद्यता भवंतीति ॥ ६९ ॥
उज्झनशुद्धिं निरूपयन्नाह;ते छिण्णणेहबंधा णिण्णेहा अप्पणो सरीरम्मि । ण करंति किंचि साहू परिसंठप्पं सरीरम्मि ॥७०॥
ते छिन्नस्नेहबंधा निस्नेहा आत्मनः शरीरे । न कुर्वति किंचित् साधवः परिसंस्कारं शरीरे ॥ ७० ॥ टीका--उज्झनशुद्धिर्नाम शरीरसंस्कारपरित्यागो बंध्वादिपरिहारो वा संर्वसंगविनिर्मुक्तिर्वा रागाभावो वा तत्र बंधुविषये शरीरविषये च गगाभावं तावदाचष्टे इति ते मुनयः छिन्नस्नेहबंधाः पुत्रकलत्रादिविषये स्नेहहीनाः, न केवलमन्यत्र किं त्वात्मीयशरीरेऽपि निःस्नेहा यतः स्वशरीरे किंचिदपि संस्कार स्नानादिकं न कुर्वति सांधव इति ॥ ७० ॥ ___ संस्कारस्वरूपभेदनिरूपणायाह;मुहणयणदंतधोवणमुव्वट्टण पादधोयणं चेव । संवाहण परिमद्दण सरीरसंठावणं सव्वं ॥७१॥ मुखनयनदंतधावनमुद्वर्तनं पादधावनं चैव । संवाहनं परिमर्दनं शरीरसंस्थापनं सर्व ॥ ७१ ॥
टीका-मुखस्य नयनयोर्दतानां च धावनं शोधनं प्रक्षालनं, उद्वर्तनं सुगंधद्रव्यादिभिः शरीरोद्धर्षणं, पादप्रक्षालनं कुंकुमादिरागेण पादयोर्निर्मलीकरणं, संवाहनमंगमर्दनं पुरुषेण शरीरोपरिस्थितेन मर्दनं परिमर्दनं करमुष्टिभि
१ अस्मादने 'चिरकरणचरणसंवृतांगा'. प्रेस-पुस्तके । २ रागाभावातामाचष्टे प्रेस-पुस्तके पाठः।