________________
मूलाचारे
स्ताडनं काष्ठमययंत्रण वा पीडनैमित्येवं सर्व शरीरसंस्थापनं शरीरसंस्कारं साधवों न कुर्वतीति संबंधः ॥ ७१ ॥
तथा;धूवण वमण विरेयण अंजण अभंग लेवणं चेव । णत्थुय वत्थियकम्मं सिरवेज्झं अप्पणो सव्वं ।। ७२॥
धूपलं वमनं विरेचनं अंजनं अभ्यंग लेपनं चैव। . नासिका वस्तिकर्म शिरावेधं आत्मनः सर्व ॥७२॥
टीका-धूपनं शरीरावयवानामुपकरणानां च धूपेन संस्करणं, वमनं कंठशोधनाय स्वरनिमित्तं वा भुक्तस्य छर्दनं, विरेचनमौषधादिनाधोद्वारेण मलनिर्हरणं, अंजनं नयनयोः कज्जलप्रक्षेपणं, अभ्यंगनं सुगंधतैलेन शरीरसंस्करणं, लेपनं चंदनकस्तूरिकादिना शरीरस्य म्रक्षणं, नासिकाकर्म, वस्तिकर्म शलाकावर्तिकादिक्रिया, शिरावेधः शिराभ्यो रक्तापनयनं, इत्येवमाद्यात्मनः सर्व शरीरसंस्कारं न कुर्वतीति ॥ ७२ ॥
यद्येवं व्याध्युत्पत्तौ किं कुर्वन्तीत्याशंकायामाह;उप्पण्णम्मि य वाही सिरवेयण कुक्खिवेयणं चेव । अधियासिंति सुधिदिया कायतिगिंछ ण इच्छंति ७३॥ उत्पन्ने च व्याधौ शिरोवेदनायां कुक्षिवेदनायां चैव। .. अध्यासंते सुधृतयः कायचिकित्सां न इच्छंति ॥७३॥
टीका-उत्पन्नेऽपि व्याधौ ज्वररोगादावुपस्थितेऽपि तथा शिरोवेदनायां कुक्षिवेदनायां चोपस्थितायामन्यस्मिन् शरीरावयवे समुत्पन्ने वेदनायामप्रतीकाररूपायां अध्यासंते सहते उपेक्षां कुर्वन्ति सुधतयो दृढचारित्रपरिणामाः कायचिकित्सं नेच्छन्ति शरीरोत्पन्नव्याधिप्रतीकार न समीहन्ते ज्ञानदर्शनभावनयोपेतो इति॥७३
१ पाठोऽयं ख-पुस्तके नास्ति । २ 'ज्ञानदर्शनादिभावितमतयो यत' इति-ख ।