________________
अनगारभावनाधिकारः ।
नाप्यार्त्तध्यानं कुर्वन्तीत्यावेदयन्नाह; -
णय दुम्मणाण विहला अणाउला होंति चेय सप्पुरिसा । णिप्पडियम्मसरीरा देति उरं वाहिरोगाणं ॥ ७४ ॥ न च दुर्मनसः न विकला अनाकुला भवंति चैव सत्पुरुषाः । निष्प्रतिकर्मशरीरा ददते उरो व्याधिरोगेभ्यः ॥ ७४ ॥
६९
टीका - नाऽपि दुर्मनसो विमनस्का नैव भवंति, न विकला नापि हिताहितविवेकशून्याः, अनाकुलाः किंकर्तव्यतामोहरहिताः सत्पुरुषाः प्रेक्षापूर्वकारिणः, निष्प्रतीकारशरीराः शरीरविषये प्रतीकाररहिताः, ददते प्रयच्छंति उरो हृदयं, व्याधिरोगेभ्यः सर्वव्याधिरोगान् समुपस्थितान धैर्योपेताः संतः सहन्ते ॥ ७४ ॥ किं सर्वौषधं विरेचनादिकं च नेच्छति नैतत् कथमिदं इच्छंति यत आह;जिणवयणमोसहमिणं विमयसुहविरेयणं अमिदभूदं । जरमरणवाहिवेयण खयकरणं सव्वदुक्खाणं ॥ ७५ ॥ जिनवचनमौषधमिदं विषयसुखविरेचनं अमृतभूतं । 'जरामरणव्याधिवेदनानां क्षयकरणं सर्वदुःखानाम् ॥ ७५ ॥
,
-
टीका – जिनवचनमेवौषधमिदं,
विषयसुखविरेचनमिन्द्रियद्वारागतस्य
सुखस्य निर्हरणं, अमृतभूतं सर्वांगसंतपर्णकारणं, जरामरणव्याधिवेदनानां क्षयकरणसमर्थ, सर्वदुःखानां च क्षयकरणं सर्वाणि ज्वरादीनि कारणानि दुःखादीनि च कार्याणि सर्वस्य कृत्स्नस्य कार्यकारणरूपस्य कर्मणो विनाशे समर्थमिति ॥ ७५ ॥
पुनरपि क्रियां कुर्वन्तीत्याह; - जिणवयणणिच्छिदमदीअ - विरमणं अब्भुवेंतिसप्पुरिसा । णय इच्छंति अकिरियं जिणवयणवदिक्कमं कार्टु ॥ ७६ ॥