________________
मूलाचारे
जिनवचननिश्चितमतयः विरमणं अभितिष्ठति सत्पुरुषाः। न च इच्छंति अक्रियां जिनवचनव्यतिक्रमं कृत्वा ॥७६॥ टीका-जिनवचने निश्चितमतयः सम्यक्तत्वार्थरुचयः, विरमणं चारित्रं “ अपि मरणमिति ” पाठान्तरं, अभितिष्ठति सम्यगभ्युपगच्छंति सत्पुरुषाः सत्वसंपन्नाः, न चैवेच्छंति नैव समीहंते जिनवचनव्यतिक्रमं कृत्वाऽक्रियां शरीरख्याध्यादिप्रतीकाराय जिनागमं व्यतिक्रम्यापासुकसेवनं मनागपि प्राणत्यागेऽपि नेच्छंतीति ॥ ७६ ॥
अन्यच्चेत्थंभूते शरीरे कथमस्माभिः प्रतीकारः क्रियत इत्याशंकायामाह;रोगाणं आयदणं वाधिसदसमुच्छिदं सरीरघरं । धीरा खणमवि रागंण करोति मुणी सरीरम्मि ॥ ७७॥
रोगाणां आयतनं व्याधिशतसम्मूछितं शरीरगृहं । धीराः क्षणमपि रागं न कुर्वति मुनयः शरीरे ॥७७ ॥
टीका-इदं शरीरं रोगाणामायतनं निलयः, व्याधिशतैः सम्मूर्छितं निर्मित, वातपित्तश्लेष्मादयो रोगास्तज्जनिता ज्वरादयो व्याधयोऽतो न पौनरुक्त्यं शरीरगृहं यत एवं भूतमिदं शरीरमतो धीरा मुनयः क्षणमपि राग स्नेहानुबंध न कुर्वति शरीरविषय इति ॥ ७७ ॥
पुनरपि शरीरस्याशुचित्वं प्रतिपादयन्नाह;एदं सरीरमसुई णिचं कलिकलु सभायणमचोक्खं । अंतोछाइद ढिड्डिस खिब्भिसभरिदं अमेज्झघरं ॥७८॥ एतत् शरीरमशुचि नित्यं कलिकलुषभाजनमचौक्षं । अंतश्छादितं डिडिसं किल्बिषभृतं अमेध्यगृहं ॥ ७८॥ टीका-शरीरमिदमशुचि यतो नित्यं कलिकलुषभाजनं रागद्वेषपात्रं, अचौक्षमशुभं सुभलेश्ययापि परिहीनं, छादितं चर्मणा संवृतमन्तरभ्यन्तरं यस्य