________________
अनगारभावनाधिकारः ।
७१
www.
ri
तदन्तश्छादितं, अन्तःशब्दस्य पूर्वनिपातो ज्ञापकात्, अथवांत्रैर्मासरज्जुभिश्छादितं परिवेष्टितं, हिड्डिसं कर्पाससमानं रुधिराहितमभ्यन्तरस्थं मांसवसाविशेषरूपं, खिब्भिसं-किल्बिषं शुक्रशोणिताशुचिकालेज्जकादिकं तैर्भूतं पूर्ण,अमेध्यगृहं मूत्रपुरीषाद्यवस्थानमिति ॥ ७८॥
किल्विषस्वरूपमाह;वसमज्जमंससोणियपुप्फसकालेजसिंभसीहाणं । ' सिरजालअहिसंकड चम्में णद्धं सरीरघरं ॥ ७९ ॥ .
वसामज्जामांसशोणितफुप्फुसकालेजश्लेष्मसिंहानकं । शिराजालास्थिसंकीर्ण चर्मणा नद्धं शरीरगृहं ॥ ७९ ॥
टीका-वसा मांसगतस्निग्धत्वं तैलरूपं, मज्जाऽस्थिगतसारः, मांसं रुधिरकार्य, शोणितं रुधिरं रसकार्य, फुफ्फुसं फेनरूपं निःसारं, कालेज्जकमतीवकृष्णमांसखंडरूपं, श्लेष्मसिंहानकं, शिराजालमस्थीन्यतैः संकीर्ण संपूर्ण, चर्मणा नद्धं त्वक्प्रच्छादितं शरीरगृहमशुचीति सबंधः ॥ ७९ ॥
तथा;बीभच्छं विच्छुइयं थहायसुसाणवञ्चमुत्ताणं ।
अंसूयपूयलसियं पयलियलालाउलमचोक्खं ॥ ८० ॥ .. बीभत्सं विशौचं थूत्कारसुसाणव!मूत्रैः।
अश्रुपूयलसियं प्रगलितलालाकुलं अचौक्षं ॥ ८० ॥
टीका-बीभत्सं द्रष्टुमशक्यं कुथितवणवत्, विच्छुइयं-अनित्यं शाश्वतरूप न भवति अथवा विशौचं सर्वाशुचिद्रव्यर्घटितत्वात् , थूहाय-कंठागतश्लेष्मा अथवा नगरमध्यस्थकचवरोत्कूटसदृशं, सुसाण-नासिकागूथं अथवा श्मशानदृशं, वर्णोऽशुचि, मूत्रं प्रस्रवणमेतैर्बीभत्सं, न केवलं बीभत्समनित्यं चेति ।