SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ मूलाचारे असूय- अश्रूणि नयनप्रच्युतोदकं, पूय-पूयं पक्कवणक्केदरूपं, लसियं-नयनगूथं, प्रगलितलालाकुलं मुखोद्भवं कुथितप्रतिस्रावाकुलमेतैः सर्वैराकुलं बीभत्समचोक्षमदर्शनीयं सर्वाशुचिसमूहवत् श्मशानवद्वेति ॥ ८० ॥ पुनरपि शरीरस्याशुचित्वमाह; कायमल मत्थुलिंगं दंतमल विचिक्कणं गलिदसेदं । किमिजंतुदोस भरिदं सेंदणियाकद्दमसरिच्छं ॥ ८१ ॥ कायमलं मस्तुलिंगं दंतमलं विचित्र्यं गलितस्वेदं । कृमिजंतुदोषभृतं स्यंदनीकर्दमसदृशम् ॥ ८१ ॥ ७२ टीका - कायमल मूत्रपुरीषादिकं, मस्तुलिंगं मस्तकस्थं शुक्रद्रव्यरूपं कुंदान्तरं, दन्तमलं दन्तस्थं दुर्गन्धं मलं, विचिक्कणं विचिक्यं चक्षुषो मलं, गलितस्वेदं प्रस्रवत्स्वेदं,कृमिजंतुभिर्दोषैश्च भृतं संपूर्ण स्येंदणियाकद्दमसरिच्छं-स्यन्दनकर्दुमस दृशं रजकवस्त्रप्रक्षालननिमित्तगर्तकुथितकर्दमसमानं, अथवा कायमलमस्तुलिंगदन्तमलैर्विचिक्यमदर्शनीयं कृमिजंतुदोषपूर्ण स्यंदनकर्दमसदृशं शरीरैमिति संबंधः ॥ ८१ ॥ पुनरपि वृत्तद्वयेन शरीराशुचित्वमाह; - अट्ठि च चम्मं च तहेव मंसं पित्तं च सिंभं तह सोणिदं च । अमेज्झसंघायमिणं सरीरं पस्संति णिव्वेदगुणाणुपेहि ८२ अस्थीनि च चर्म च तथैव मांसं पित्तं च श्लेष्मा तथा शोणितं च । अमेध्यसंघातमिदं शरीरं पश्यंति निर्वेदगुणानुप्रेक्षिणः ॥ ८२ ॥ टीका अस्थीनि च चर्माणि च तथैव तेनैव प्रकारण मांसं पित्तं श्लेष्मा तथा शोणितमित्येवंप्रकारैरमेध्यसंघातभूतमिदं शरीरं पश्यन्ति निर्वेदगुणानुप्रेक्षिणः, ये मुनयो देहसंसारभोगनिर्वेदमापन्ना शरीरमेवंभूतं पश्यन्तीति ॥ ८२ ॥ १ शरीरमिदमिति ख ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy