SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तथा; - अनंगारभावनाधिकारः। ६५ सुदरयणपुण्णकण्णा हेउणयविसारदा विउलबुद्धी । णिउणत्थसत्थकुसला परमपयवियाणया समणा ॥ ६७ ॥ श्रुतरत्नपूर्णकर्णा हेतुनयविशारदा विपुलबुद्धयः । निपुणार्थशास्त्रकुशलाः परमपदविज्ञायकाः श्रमणाः ॥ ६७ ॥ टीका - श्रुतमेव रत्नं पद्मरागादिकं तेन पूर्णौ समलंकृतौ कर्णौ येषां ते श्रुतरत्नपूर्णकर्णाः । हेतुर्द्विविधो बहिर्व्याप्तिलक्षणोऽन्तर्व्याप्तिलक्षणश्च, तत्र बहिर्व्याप्तिलक्षणस्त्रिविधः सपक्षे सत्वं विपक्षे चासत्वं पक्षधर्मत्वमिति । अन्तर्व्याप्तिलक्षण एकविधः, साध्याविनाभाव एकं लक्षणं यस्य स साध्याविनाभावैकलक्षणः । यदंतरेण यनोपपद्यते तत्साध्यं, इतरत्साधनं । अन्यथानुपपत्तिवैकल्यविशेषादसिद्धविरुद्धानैकान्तिका हेत्वाभासाः। तत्र साध्येऽनुपपत्तिरज्ञातश्चासिद्धः, तद्विशेषोऽकिंचित्करः, अन्यथोपपन्नो विरुद्धः, अन्यथाप्युपपन्नोऽनैकांतिकः। श्रुतनिरूपितैकदेशाध्यवसायो नयः सप्तप्रकारो नैगमादिभेदेन, तत्र सामान्यविशेषादिपरस्परापेक्षानेकात्मकवस्तुनिगमनकुशलो नैगमः, यदस्ति न तदयमतिलंघ्य वर्त्तत इति । स्वजात्याविरोधेन नैकट्यमुपनीय पर्यायानाक्रान्तभेदान् समस्तसंग्रहणात्संग्रहः, यथा सर्वमेकं सदविशेषादिति । संग्रहनयाक्षिप्तानां पदार्थानां विधिपूर्वकं व्यवहरणं व्यवहारः, यथा पृथिव्यादयोऽनेकधा व्यवस्थितास्तत्त्वं तत्र संव्यवहारदर्शनादिति । अतीतानागतकोटिविनिर्मुक्तं वस्तु समयमात्रं ऋजु सूत्रयतीति ऋजुसूत्रः, यथा विश्वं क्षणिकं सत्वादिति । यथार्थप्रयोगसंशब्द नाच्छब्दार्थभेदकृत्-कालकारकलिंगानां भेदादिति । प्रत्यर्थमेकैकसंज्ञाभिरोहणादिन्द्रशक्रपुरन्दरंपर्यायशब्दभेदनात्समभिरूढ इति । तत्क्रियापरिणामकाल एव तदित्थंभूतो यथा कुर्वत एव कारकत्वमिति । चत्वारोऽर्थनयास्त्रयः शब्दनयाः, पूर्वे त्रयो द्रव्यनयाः शेषाः पर्यायनया इत्येवंभूते हेतौ नये च विशारदा निपुणा हेतुन १' परपक्षे ' इति ग-पुस्तके | ५
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy