________________
मूलाचारे
an
सकाध्ययनांतःकृद्दशानुत्तरदशप्रश्नव्याकरणविपाकसूत्रदृष्टिवादसंज्ञकानि द्वादशांगानि धारयति तथा दृष्टिवादोद्भूतचतुर्दशपूर्वाण्युत्पादाग्रायणीवीर्यानुप्रवादास्तिनास्तिप्रवादज्ञानप्रवादसत्यप्रवादात्मप्रवादकर्मप्रवादप्रत्याख्यानप्रवादविद्यानुप्रवादकल्याणप्राणवायक्रियाविशाललोकबिन्दुसारसंज्ञकानि धरति जाति यतोऽत आगमकृतविज्ञाना इति ॥ ६५ ॥
न केवलं तानि पठंति शृण्वंति, किं तु;धारणगहणसमत्था पदाणुसारीय बीयबुद्धीय । संभिण्णकोट्ठबुद्धी सुयसागरपारया धीरा ॥६६॥
धारणग्रहणसमर्थाः पदानुसारिणो बीजबुद्धयः। संभिन्नकोष्ठबुद्धयः श्रुतसागरपारगा धीराः॥६६॥ टीका-तेषामंगानां पूर्वाणां चार्थग्रहणसमर्था यथैवोपाध्यायः प्रतिपादयत्यर्थ तथैवाविनष्टं गृहंति प्रतिपद्यते ग्रहणसमर्थाः, गृहीतमर्थ कालांतरण न विस्मरंतीति धारणसमर्थाः । चतुर्विधबुद्धिसंपन्ना इत्युक्ताः के ते इत्याशंकायामाह; पदानुसारिणः, बीजबुद्धयः, संभिन्नबुद्धयः, कोष्ठबुद्धयश्च । द्वादशांगचतुर्दशपूर्वमध्ये एकं पदं प्राप्य तदनुसारेण सर्व श्रुतं बुध्यते पादानुसारिणः । तथा सर्वश्रुतमध्ये एकं बीजं प्रधानाक्षरादिकं संप्राप्य सर्वमवबुध्यन्ते बीजबुद्धयः । तथा चक्रवर्तिस्कन्धावारमध्ये यद्वृत्तमार्याश्लोकमात्राद्विपददंडकादिकमनेकभेदभिन्नं सर्वैः पठितं गेयविशेषादिकं च स्वरादिकं च यच्छुतं यस्मिन् यस्मिन् येन येन पठितं तत्सर्व तस्मिन् तस्मिन्काले तस्य तस्याविनष्टं ये कथयंति ते संभिन्नबुद्धयः। तथा कोष्ठागारे संकरव्यतिकररहितानि नानाप्रकाराणि बीजानि बहुकालेनाऽपि न विनश्यति न संकीर्यते च यथा तथा येषां श्रुतानि पदवर्णवाक्या दीनि बहुकाले गते तेनैव प्रकारेणाविनष्टार्थान्यन्यूनाधिकानि संपूर्णानि संतिष्ठते ते कोष्ठबुद्धयः । श्रुतसागरपारगा: सर्वश्रुतबुद्धपरमार्था अवधिमन:पर्ययज्ञानिनः सप्तर्द्धिसम्पन्ना धीरा इति ॥ ६६ ॥