SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः। Annnn अनुबद्धतपःकर्माणः क्षमणवशंगताः तपसा तन्वंगाः। धीरा गुणगंभीरा अभन्नयोगाश्च दृढचरित्राश्च ॥ ६३ ॥ टीका-अनुबद्ध संततं तपःकर्म तपोऽनुष्ठानं येषां तेऽनुबद्धतपःकर्माणो द्वादशविधे तपस्युद्यताः, क्षमणवशंगताः, तपसा तनुशरीराः धीराः, गुणगंभीरा गुणसंपूर्णाः, अभग्नयोगाः, दृढचरित्राश्च ॥ ६३ ॥ तथा;आलीणगंडमंसा पायडभिउडीमुहा अधियदच्छा । सवणा तवं चरंता उक्किण्णा धम्मलच्छोए ॥६४॥ आलीनगंडमांसाः प्रकटभ्रकुटीमुखा अधिकाक्षाः। श्रमणाः तपश्चरंत उत्कीर्णा धर्मलक्ष्म्या ॥ ६४॥ टीका--आलीनगंडमांसाः क्षीणकपोलाः प्रकटभृकुटिमुखा अधिकाक्षास्तारकामात्रनयनाश्चर्मास्थिशेषाः श्रमणास्तपश्चरंत एवंभूता अपि संयुक्ता धर्मलक्ष्या ज्ञानभावनयोपेता यतो ने ज्ञानमात्रासिद्धिरिति ॥ ६४ ॥ कथं ज्ञानभावनया संपन्ना इत्याशंकायामाह,आगमकदविण्णाणा अहंगविदू य बुद्धिसंपण्णा। अंगाणि दस य दोषिण य चोदस य धरंति पुवाइं॥६५॥ आगमकृतविज्ञाना अष्टांगविदश्च बुद्धिसंपन्नाः। अंमानि दश च द्वे चतुर्दश च धारयांत पूर्वाणि ॥ ६५ ॥ टीका- न केवलं भिक्षादिशुद्धौ रताः किं तु ज्ञानशुद्धावपि रता यतः आगमेन कृतं विज्ञानं यैस्ते आगमकृतविज्ञानाः श्रुतज्ञानदृष्टपरमार्थाः, अष्टांगविदोंऽगव्यंजनादिनिमिनकुशलाश्चतुर्विधबुद्धिसंपन्नाश्च । कथमागमकृतविज्ञाना इति चेदंगानि दश हे चाचारसूत्रकृतस्थानसमवायव्याख्याप्रज्ञाप्तिज्ञातृकथोपा १ . यतो न ' इति पदं प्रेस-पुस्तके नास्ति ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy