SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मूलाचारे भुक्त्वा गोचराये तथैव मुनयः पुनरपि प्रतिकांताः । परिमितैकाहाराः क्षमणेन पुनरपि पारयति ॥ ६१ ॥ ६२ टीका - गोचरा भुक्त्वा भिक्षाचर्यामार्गे भुक्त्वा तथापि मुनयः पुनरपि प्रतिक्रामति दोषनिर्हरणाय क्रियाकलापं कुर्वते, यद्यपि कृतकारितानुमतिरहिता भिक्षा लब्धा तथापि तदर्थं वा शुद्धिं कुर्वन्त्यतीव यतयः, परिमितैकाहाराः परि मित एक एकवेलायामाहारो येषां ते परिमितैकाहाराः क्षमणेनोपवासेनैकस्थानेन वा पुनरपि पारयंति भुंजते इति ॥ ६१ ॥ ज्ञानशुद्धिं निरूपयन्नाह; - ते लवणाणचक्खू णाणुज्जोएण दिट्ठपरमट्ठा । णिस्संकिदणिव्विदिगिंछादबलपरक्कमा साधू ॥ ६२ ॥ ते लब्धज्ञानचक्षुषो ज्ञानोद्योतेन दृष्टपरमार्थाः । निःशंकानिर्विचिकित्सात्मबलपराक्रमाः साधवः ॥ ६२ ॥ टीका - ते मुनयो लब्धज्ञानचक्षुषो ज्ञानोयोतेन दृष्टपरमार्था मतिज्ञानं श्रुतज्ञानं मनःपर्ययावधिज्ञानमुद्योतस्तेन ज्ञातः सर्वलोकसारः, शंकाया श्रुतज्ञानादिनिरूपितपदार्थविषयसंदेहान्निर्गता निःशंका, विचिकिसाया निर्गता निर्विचिकित्सां आत्मबलानुरूपः पराक्रमो येषां त आत्मबल पराक्रमा यथाशक्त्युत्साहसमन्विताः साधव इति ॥ ६२ ॥ पुनरपि किंविशिष्टा इत्याशंकायामाह ; - अणुबद्धतवोकम्मा खवणवसगढ़ा तवेण तणुअंगा । धीरा गुणगंभीरा अभग्गजोगा य दिढचरित्ता य ॥ ६३ ॥ १ अस्मादग्रे चक्षुरिति पदं प्रेस - पुस्तके । २ अस्मादग्रे ताभ्यां सहिताः साधवस्तथाऽऽत्मबलपराक्रमा इति पाठः प्रेस - पुस्तके |
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy