________________
२८
मूलाचारे
धर्मानुरागे कारणमाह;जेणेह पाविदव्वं कल्लाणपरंपरं परमसोक्खं ।। सो जिणदेसिद्धम्मं भावेणुववज्जदे पुरिसो ॥ ६१॥
येनेह प्राप्तव्यं कल्याणपरंपरा परमसौख्यं । स जिनदेशितं धर्म भावेन उपपद्यते पुरुषः ॥ ६१॥ टीका-येनेह-येन जीवेनास्मिंल्लोके कल्याणपरंपरा मांगल्यनैरन्तर्य परमसौख्यं प्राप्तव्यं स जीवो जिनदेशितं तीर्थकराख्यातं धर्म भावेनोपपद्यते पुरुषः परमार्थतो धर्म अद्दधाति सेवते-पापक्रियां मनागपि नाचरतीति ॥६१॥
धर्मस्य विकल्पानाह;खंतीमद्दवअज्जवलाघवतवसंजमो आकिंचणदा। तह होइ बंभचेरं सच्चं चाओ य दसधम्मा ॥ ६२॥
क्षांतिमार्दवार्जवलाघवतपःसंयमाः अकिंचनता। तथा भवति ब्रह्मचर्य सत्यं त्यागश्च दशधर्माः ॥ ६२ ॥
टीका-क्षान्त्यार्जवमार्दवलाघवतपःसंयमा आकिंचन्यं तथा ब्रह्मचर्य सत्यं त्याणश्चैवं धर्मो दशविधो भवति ज्ञातव्य इति ॥ ६२॥ .
धर्मभावनाफलमाह;उवसम दया य खंती वड्डइ वेरग्गदा य जह जह से । तह तह य मोक्खसोक्खं अक्खीणं भावियं होइ॥६३॥ उपशमो दया च क्षांतिः वर्धते वैराग्यता च यथा यथास्य । तथा तथा च मोक्षसौख्यं अक्षीणं भावितं भवति ॥ ६३॥ टीका-उपशम इन्द्रियनिग्रहे पुरुषव्यापारो, दयाऽनुकंपा, क्षान्तिः क्रोधाअनुत्पत्तिरन्यकृतोपद्रवसहनं, एते विरागता च यथा यथा वर्द्धन्ते-वैराग्यकार