________________
द्वादशानुप्रेक्षाधिकारः ।
२९
wwwwwwwwwwwwwwwwwwwwwwwww
णेन वृद्धिं गच्छन्ति यथा यथास्य, जीवस्य तथा तथा तस्य जीवस्य मोक्षसौख्यमक्षयं भावितं भवतीति ॥ ६३॥ ___ धर्मानुप्रेक्षामुपसंहर्तुकाम: प्राह;संसारविसमदुग्गे भवगहणे कह वि मे भमंतेण । दिहो जिणवरदिडो जेहो धम्मोत्ति चिंतेज्जो ॥ ६४ ॥
संसारविषमदुर्गे भवगहने कथमपि मया भ्रमता । दृष्टो जिनवरदिष्टो ज्येष्ठो धर्म इति चिंतयेत् ॥ ६४॥ टीका-संसारविषमदुर्गे भवगहने भवाकुले कथमपि भ्रमता पर्यटता मया जिनवरोपदिष्टो ज्येष्ठः प्रधानो धर्मो दृष्ट इत्येवं चिन्तयदिति ॥ ६४ ॥
बोधिदुर्लभतास्वरूपमाह;-- संसारह्मि अणंते जीवाणं दुल्लहं मणुस्सत्तं । जुगसमिलासंजोगो लवणसमुद्दे जहा चेव ॥६५॥ संसारे अनंते जीवानां दुर्लभं मनुष्यत्वं । युगसमिलासंयोगो लवणसमुद्रे यथा एव ॥६५॥ टीका-संसारेऽनंतेऽत्यन्तदीर्घ जीवानां दुर्लभं मनुष्यत्वं मनुष्यजन्म, यथा लवणसमुद्रे युगसमिलासंयोगः । पूर्वसमुद्रभागे युगं निक्षिप्तं, पश्चिमसमुद्रभागे समिला निक्षिप्ता, तस्याः समिलाया युगविवरे यथा प्रवेशो दुर्लभस्तथा जीवस्य चतुरशीतियोनिलक्षमध्ये मनुष्यतां दुर्लभमेवेति ॥६५॥
मनुष्यत्वे लब्धेऽपि बद्दुर्लभं तदाह;-- देसकुलजम्म एवं आऊ आरोग्ग वीरियं विणओ। सवणं गहणं मादि धारणा य एदेवि दुल्लहा लोए॥६६॥
देशकुलजन्म रूपं आयुः आरोग्यं वीर्य विनयः। श्रवणं ग्रहणं मतिः धारणा च एतेपि दुर्लभा लोके ॥ ६६ ॥