SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ मूलाचारे टीका--मनुष्यत्वे लब्धेऽप्यतिदुर्लभ आर्यदेशः, मनुष्यत्वं यतो म्लेच्छखंडेषु भोगभूमावपि विद्यते । आर्यदेशे लब्धेऽपि दुर्लभं कुले जन्म, आर्यदेशे भिल्लववरचांडालादिकुलानामपि संभवात् । विशुद्धकुले लब्धेऽप्यतीव दुर्लभं रूपमवयवसंपूर्णता, शुद्धकुलेऽपि यतो विकलांगदर्शनामिति । रूपे लब्धेऽपि दुर्लभं सष्ठु दीर्घायुश्चिरंजीवित्वं । चिरजीवनादप्यारोग्यं दुर्लभतरं । आरोग्यादपि वीर्य दुर्लभतमं । वीर्यादपि विनयोऽतीव दुर्लभतमः । तस्मादपि श्रवणमा दिसंप्राप्तिः । तस्मादपि ग्रहणमवधारणं सुष्ठु न सुलभं । तस्मादपि पूर्वापरविवेकरूपता मतिः स्मरणादिकमतीव दुर्लभा । ततोऽपि धारणा कालान्तरेऽप्यविस्मरणत्वं दुर्लभा । मनुष्यत्वे लब्धेप्येते सर्वे क्रमेण दुर्लभा लोके जगतीति॥६६॥ एतेभ्योऽपि दुर्लभतममाह;लद्धेसु वि एदेसु य बोधी जिणसासणमि ण हु सुलहा। कुपहाणमाकुलत्ता जं बलिया रागदोसा य ॥ ६७ ॥ लब्धेष्वपि एतेषु च बोधिः जिनशासने न हि सुलभा । कुपथानामाकुलत्वात् यत् बलिष्ठौ रागद्वेषौ च ॥ ६७ ॥ टीका-लब्धेष्वेप्येतेषु बोधिः सम्यक्त्वं दर्शनविशुद्धिस्तत्कारणे च जिनशासने परमागमे नैव सुलभा न सुखेन लभ्यते । कुतः ? कुपथानामाकुलत्त्वात् यतः कुत्सितमार्गदुष्टाभिप्रायैर्धान्तोऽयं लोकः, यस्माच्च रागद्वेषौ बलवन्तौ, अथवा कुपथानामाकुलत्वहेतोर्बलिनौ रागद्वेषौ यत इति ॥ ६७॥ एवं बोधिदुर्लभत्वं विज्ञाय तदर्थपरिणाम कर्तुकाम: प्राह;सेयं भवभयमहणी बोधी गुणवित्थडा मए लद्धा । जदि पाडेदा ण हु सुलहा तम्हाण खमोपमादो मे ॥६॥ सेयं भवभयमथनी बोधिः गुणविस्तृता मया लब्धा । । यदि पतिता न खलु सुलभा तस्मात् न क्षमाप्रमादो मम ॥६८॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy